Book Title: Shivsutra Varttikam
Author(s): Varadraja, Madhusudan Kaul
Publisher: Research Department Jammu & Kashmir Srinagar

View full book text
Previous | Next

Page 58
________________ शिवसूत्रवार्तिकम् । [३३० यस्य तस्यास्य तदिति प्रोक्नाणवमलात्मनः । अभिलाषस्य रूढस्य चयाजीवस्य संक्षयः ॥ १८० ॥ पुर्यष्टकस्वभावस्य प्रशमस्तत्त्वतो भवेत् ॥ ४१ ॥ प्राप्नोति देहपातोऽस्य नन्वेवं जीवसंक्षये ॥ १८१ ॥ नासौ कदापि कस्यापि दृश्यतेनापि योगिनः । तस्मात्कथं तदारुढप्रमितिः साधको भवेत् ॥ १८२॥ इत्याशंक्योत्तरं वक्ति भगवान्विश्वदैशिकः । भूतकंचुकी तदा विमुक्तो भूयः पतिसमः परः ॥४२॥ तदेत्युक्ताभिलाषस्य प्रशमाज्जीवसंक्षये ॥ १८३ ॥ पुर्यष्टकप्रमातृवाभिमानगलनेऽप्यसौ । देहारम्भकरैर्भूतैरस्पृशद्भिरहंपदम् ॥ १८४ ॥ कंचुकीव विशेषेण मुक्तो निर्वाणभाग्यतः । भूयो बाहुल्यतः पत्या समोऽयं परमेशिना ॥१८५ ॥ तत्स्वरूपसमाविष्टचिदानन्दघनात्मकः । तत एव परः पूर्णः सम्यक्तन्मयतां गतः॥१८६॥ ४२ ॥ भूतकंचुकिताप्यस्य तदैव न निवर्तते । कस्मादित्यपि शंकायामुत्तरं वक्ति शंकरः ॥ १८७ ॥

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63