________________
शिवसूत्रवार्तिकम् । [३३० यस्य तस्यास्य तदिति प्रोक्नाणवमलात्मनः । अभिलाषस्य रूढस्य चयाजीवस्य संक्षयः ॥ १८० ॥ पुर्यष्टकस्वभावस्य प्रशमस्तत्त्वतो भवेत् ॥ ४१ ॥
प्राप्नोति देहपातोऽस्य नन्वेवं जीवसंक्षये ॥ १८१ ॥ नासौ कदापि कस्यापि दृश्यतेनापि योगिनः । तस्मात्कथं तदारुढप्रमितिः साधको भवेत् ॥ १८२॥ इत्याशंक्योत्तरं वक्ति भगवान्विश्वदैशिकः ।
भूतकंचुकी तदा विमुक्तो भूयः
पतिसमः परः ॥४२॥ तदेत्युक्ताभिलाषस्य प्रशमाज्जीवसंक्षये ॥ १८३ ॥ पुर्यष्टकप्रमातृवाभिमानगलनेऽप्यसौ । देहारम्भकरैर्भूतैरस्पृशद्भिरहंपदम् ॥ १८४ ॥ कंचुकीव विशेषेण मुक्तो निर्वाणभाग्यतः । भूयो बाहुल्यतः पत्या समोऽयं परमेशिना ॥१८५ ॥ तत्स्वरूपसमाविष्टचिदानन्दघनात्मकः । तत एव परः पूर्णः सम्यक्तन्मयतां गतः॥१८६॥ ४२ ॥
भूतकंचुकिताप्यस्य तदैव न निवर्तते । कस्मादित्यपि शंकायामुत्तरं वक्ति शंकरः ॥ १८७ ॥