________________
वरदराजविरचितम् । नैसर्गिकः प्राणसंबन्धः ॥ ४३ ॥ प्राणे परिणता संवित् प्रागिति प्रोक्लया दिशा । निसर्गात्सहजात्स्वस्य स्वातन्त्र्यादनिवारितात् ॥१८॥ चंचत्प्रपंचवैचित्र्यप्रकर्षकरणेच्छया । संकोचं परिगृहाना संविद्भगवती स्वयम् ॥ १८६ ॥ प्राप्नोति संकुचत्तत्तत्प्राणग्राहकभूमिकाः । उक्कमर्थं दृढीकर्तुं संवादः सोऽयमत्र तु ॥ १० ॥ 'या साशक्तिः परा सूक्ष्मा व्यापिनी निर्मला शिवा । शक्तिचक्रस्य जननी परानन्दामृतात्मिका ॥ १६१ ॥ महाघोरेश्वरी चंडा सृष्टिसंहारकारिका । त्रिवहं त्रिविधं त्रिष्ठं बलात्कालं प्रकर्षति ॥ १६२ ॥ इति वाजसनेयायामियमेव चितिः परा । स्वातन्त्र्येणावरुह्य प्राक् प्राणरूपे प्रमातरि ॥ १६३ ॥ चन्द्रभास्करवह्नयात्मनाडीत्रितयवाहिनम् । अन्तर्बहिर्विशनियनिश्वासोच्छ्वासलक्षणम् ॥ १६४ ॥ अतीतवर्तमानादित्रिविधं कालमात्मनि । कर्षन्त्यन्तर्बहिश्चेति कथ्यते कालकर्षिणी ॥ १६५ ॥ ततो नैसर्गिकस्तस्याः प्राणसंबन्ध आगतः ॥ ४३ ।।
स्थितेऽपि प्राणसंबन्धे यस्तदारूढ आन्तरीम् ॥ १६६ ॥ संविदं विमृशन्नास्ते स लोकोत्तरतां व्रजेत् । इत्युपायोपसंहारमुखेनाह महेश्वरः ॥ १६७ ॥