________________
જે
शिवसूत्रवार्तिकम् ।
नासिकान्तर्मध्यसंयमात् किमत्र सव्यापसव्यसषुम्नेषु ॥ ४४ ॥
! ३४०
नेत्रादि रोमरन्ध्रान्तनाडीनां निविडात्मनाम् । सर्वासां मुख्यभूतेषु सर्वावष्टम्भदायिषु ॥ १६८ ॥ सव्यापसव्यसौषुम्ननाडीमार्गेषु सर्वदा । नाडीनां नासिका प्राणशक्तिः कुटिलवाहिनी ॥ १६६ ॥ अन्तरित्यान्तरी संवित् तत्स्वरूपस्य यत्पुनः । मध्यं सर्वान्तरत्वेन प्रधानं विश्वभित्तिकम् ॥ २०० ॥ परामर्शमयं रूपमुत्तीर्ण तस्य संयमात् । निभालनप्रकर्षोत्थात् स्वात्मबुद्धिविमर्शनात् ॥ २०१ ॥ किमत्र संयमे वाच्यमियमेव समाहितिः । देदीप्यमाना सर्वासु दशास्वन्तर्निरन्तरम् ॥ २०२ ॥ निर्व्युत्थानावधानेन योगिनैवानुभूयते ॥ ४४ ॥
'मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ॥ २०३ ॥ श्रद्धया परयोपेतास्ते मे युक्ततमा मताः । ' इति श्रीभगवद्गीताप्रोक्तनीत्यनुसारतः ॥ २०४ ॥ विश्वोत्तीर्णनिजाहन्तासमावेशितचेतसः ।
पर्यन्ते योगिनो योगफलं सम्यक् प्रदर्शयन् ॥ २०५ ॥ उपसंहरति श्रीमानुक्तं प्रकरणं शिवः ।
भूयः
स्यात्प्रतिमीलनम् ॥ ४५ ॥