________________
वरदराजविरचितम् ।
पुनश्च प्रोक्तचैतन्यस्वरूपोन्मीलनात्मकम् ॥ २०६ ॥ परयोगाधिरूढस्य भवेत्परमयोगिनः । भूयः स्यादिति वाक्यस्य स्फुटमेवायमाशयः ॥ २०७ ॥ यच्छिवत्वममुष्योक्नं नापूर्व तत्तु योगिनः । स्वभाव एव, तन्मायाशक्तिप्रोत्थापितानिजात् ॥ २०८ ॥ नायं विकल्पदौरात्म्याद्भासमानमपि स्वतः । विग्रष्टुं तम इत्यस्य प्रोक्नोपायक्रमेण तत् ॥२०६॥ शिवत्वं व्यक्तिमेतीति शिवनोदीरितं शिवम् । इत्युन्मेषस्तृतीयोऽयमाणवोपायसूचकः ॥ २१० ॥
इति श्रीशिवसूत्राणां रहस्यार्थोपहितम् । . प्रागुक्तवार्तिकांशेन सहितं वार्तिकान्तरम् ॥ २११ । अखण्डसंवित्साम्राज्ययौवराज्याधिकारिणाम् । पराक्रमहठाक्रान्तपत्रिंशत्तत्त्वसंपदाम् ॥ २१२ ॥ मधुराजकुमाराणां महाहन्ताधिरोहिणाम् । पश्चिमेन तदालोकवस्तपश्चिमजन्मना ।। २१३ ॥ मया वरदराजेन मायामोहापसारकम् । श्रीचेमराजनिर्णीतव्याख्यानाध्वानुसारिणा ॥ २१४ । कृतिना कृष्णदासेन व्यञ्जितं कृपयाञ्जसा । अनुगृह्णन्तु नामैतत् सन्तः सन्तोषमागताः ॥२१५॥