________________
वरदराजविरचितम् । तन्मयं भवतीत्यर्थात्तदा सर्व चराचरम् ॥ १७१ ॥ एवं स्वानन्दरूपास्य शक्तिः स्वातन्त्र्यलक्षणा ।। यथेष्टभावनिर्माणकारिणी भवति स्फुटम् ॥ १७२ ॥३६ ॥
यदा पुनरसौ योगी प्रोक्तां तुर्यात्मिकां दशाम् । आन्तरी नामृशत्यन्तस्तदा देहाद्यहंकृतेः ॥ १७३ ॥ अपूर्णम्मन्यतारूपादस्याणवमलात्मनः ।
अभिलाषाबहिर्गतिः संवाह्यस्य ॥ ४०॥ तत्वैः शक्तिगणाक्रान्तैर्धरण्यन्तैः कलादिभिः॥१७४ ॥ योनेर्योन्यन्तरं नेयः संवाह्यः पशुरुच्यते । तस्याणवमलाकारात् तत्तत्कर्मानुसारिणः ॥ १७५ ॥ अपूर्णम्मन्यतारूपादभिलाषादहिर्गतिः । विषयोन्मुखतैवास्य नान्तस्तत्त्वानुसंहितिः॥१७६ ॥४०॥
यदा पुनर्महेशानशक्तिपातक्शोन्मिषत् । आत्मीयमेव विमृशन्नास्ते रूपं, तदास्य तु ॥ १७७॥ अभावादभिलाषस्य न बहिर्गतिरापतेत् । अपितूतचरस्वात्मारामतैवेति कथ्यते ॥ १७८ ॥ तदारूढप्रमितेस्तत्क्षयाजीवसंचयः॥४१॥ तदित्युक्तचरे धाग्नि संवेत्तृवस्वरूपिणि । आरूढा प्रमितिः संवित् तद्विमर्शनतत्परा ॥ १७६ ॥