________________
शिवसूत्रवार्तिकम् । [३ उ० त्रिपदाद्यनुप्राणनम् ॥ ३८॥ त्रिपदं जागरास्वप्नसौषुप्तानामनुक्रमात् । प्रत्येकमादिमध्यान्तरूपं भंग्या निरूपितम् ॥ १६२ ॥ भावोन्मुख्यतदासक्तितदेकीकरणात्मकम् । सृष्टिस्थितिलयाकारं तुर्येणैव तदादिना ॥ १६३ ॥ तत्त्रयान्तश्चमत्काररसानन्दधनात्मना । माययाच्छादितेनापि तिरोधानस्वरूपया ॥ १६४ ॥ तत्तद्विषयभोगेषु विद्युद्वत्स्फुरता क्षणम् । अनुप्राणनमादध्यादवधानेन साधकः ॥ १६५ ॥ तेनैव जीवितेनापि जीवितस्य निजात्मनः । सम्यगुत्तेजनं कुर्याद्यनासौ तन्मयो भवेत् ॥ १६६ ॥ तुर्यानुप्राणनं प्रोक्तं जागरादौ पुरा त्रिषु । चतुर्थमिति सूत्रेण, त्रिपदेत्यादिनामुना ॥ १६७ ॥ जागराधादिमध्यान्तपर्वस्विति विशिष्यते ॥ ३८ ॥
अन्तर्मुखस्वरूपायामवस्थायां न केवलम् ॥ १६८ ॥ त्रिपदादिप्राणनमित्येतदुक्तमथापितु ।
चित्तस्थितिवच्छरीरकरणबाह्येषु ॥ ३९ ॥ अनुप्राणनमित्येतदादद्यादिति शिष्यते ॥ १६६ ॥ अन्तर्मुखस्वरूपायां यथा चित्तस्थितौ तथा । अनुपाणनमुक्तेन तुर्येणानन्दवपिणा ॥ १७० ॥ कुर्याद्वहिर्मुखलेऽपि देहाक्षविषयात्मनि ।