Book Title: Shivsutra Varttikam
Author(s): Varadraja, Madhusudan Kaul
Publisher: Research Department Jammu & Kashmir Srinagar

View full book text
Previous | Next

Page 45
________________ वरदराजविरचितम् । आत्मीकृतपरानन्ददगाढावगाहनात् । प्रस्फुरच्छाम्भवावशवैभवः साधकोत्तमः ॥ ६५ ॥ खमात्रानिर्माणमापादयति ॥ १७ ॥ खस्य संबन्धिनी मात्रा चैतन्यस्योक्तरूपिणः । आश्यानता मितात्मांशो ग्राह्यग्राहकलक्षणः ॥ ६६ ॥ निर्माणापादनं तस्या निर्मितलेन दर्शनम् । संपादयति योगीन्द्रो यथेष्टं स्पष्टमिच्छया ॥ ६७ ॥ एवमीदृशशक्त्युत्थविश्वरूपस्य योगिनः । पुनर्जन्मादिसंबन्धो न कश्चिदिति कथ्यते ॥ ६८ ।। विद्याऽविनाशे जन्मविनाशः॥१८॥ विद्येति सहजा तस्या अविनाशः सदोदयः । तेनैवाज्ञानसहकृत्तत्तत्कर्मानुषङ्गिणः ॥ ६६ ॥ देहप्राणमनीषादिसमुदायस्य जन्मनः । विनाशो मूलविध्वंसो भवत्यस्येति शिष्यते ॥ ७० ॥ यदा तु शुद्धविद्यायाः स्वरूपं तस्य मजति । तदा तन्मोहनायैव समुत्तिष्ठन्ति शक्तयः ॥ ७१ ॥ कवर्गादिषु माहेश्वर्याद्याः पशुमातरः॥ १६ ॥ कवर्गादिषु तिष्ठन्त्यस्तदधिष्ठातृतां गताः ।

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63