Book Title: Shivsutra Varttikam
Author(s): Varadraja, Madhusudan Kaul
Publisher: Research Department Jammu & Kashmir Srinagar

View full book text
Previous | Next

Page 51
________________ वरदराजविरचितम् । प्रोक्तचैतन्यरूपस्य साक्षात्करणमात्मनः । यत्तज्ज्ञानं तदेवास्य दानं यत्नेन दीयते ॥ ११७ ॥ परिपूर्ण स्वरूपं स्वं , दीयते खंड्यते भिदा । दायते शोध्यते रूपमात्मीयं, दीयते पुनः ॥ ११८ ॥ रक्ष्यते प्रत्यभिज्ञातः शिवात्मा स्वस्वभावता । दीयते चेति यत्नेन स्वात्मज्ञानमनुत्तरम् ॥ ११६ ॥ कृपया स्वात्मशिष्येभ्यस्तदनेनैव दीयते ॥ २८ ॥ एवं सम्यग्नतं प्रोक्तं जपं चर्या च पालयन् ॥ १२० ॥ शिवतुल्यः सदा स्वात्मशिवाराधनतत्परः । अयमेव महायोगी महामत्रधुरन्धरः ॥ १२१ ॥ अन्तेवासिजनस्यान्तस्तत्त्वतस्तत्त्वबोधकः । इत्याह भगवानीशो नित्यानुग्रहकारकः ॥ १२२ ॥ योऽविपस्थो ज्ञाहेतुश्च ॥ २६ ॥ अवीन्पशुजनान्पातीत्यविपं शक्तिमण्डलम् । माहेश्वर्यादिकं प्रोक्तं कवर्गाद्यधिदैवतम् ॥ १२३ ।। अधितिष्ठति यः स्वैरमविपस्थः स उच्यते । जानातीत्यखिलं तत् ज्ञा ज्ञानशक्तिरुदीर्यते ॥ १२४ ।। तस्या हतुस्तया शिष्यान्प्रतिबोधयितुं क्षमः । अन्यस्तु शक्तिचक्रेण परतत्रीकृतत्वतः ॥ १२५ ॥ स्वात्मन्येवासमर्थः सन्कथमन्यान्प्रबोधयेत् । 'यच्छब्दापेक्षया सूत्रे तच्छब्दोऽध्याहृतः स्वयम् ॥१२६ ॥ चशब्दो ह्यर्थवाच्यत्र यमाज्ज्ञानप्रबोधने ।

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63