Book Title: Shivsutra Varttikam
Author(s): Varadraja, Madhusudan Kaul
Publisher: Research Department Jammu & Kashmir Srinagar

View full book text
Previous | Next

Page 55
________________ वरदराजविरचितम् । अनर्गलमहेशानशक्तिपातात्समुन्मिषन् ॥ १५३ ॥ स्वातन्त्र्ययोगः सहजः प्रादुरस्ति, तदास्य तु । भेदतिरस्कारे सर्गान्तरकर्मत्वम् ॥ ३६ ॥ भेदस्य देहप्राणादिमिताहंकृतिजन्मनः ॥ १५४ ॥ कलादिवलितभ्रान्तसकलाधुचितात्मनः । तिरस्कारे स्थितस्यापि स्वोन्मेषादपहस्तने ॥ १५५ ॥ मत्रमत्रेशतादात्म्यस्वमाहात्म्यप्रकाशनात् । स्यात्सर्गान्तरकर्मखममुष्य परयोगिनः ॥ १५६ ॥ यथाभिलाषनिर्मेयनिर्मातलं स्फुटं भवेत् ॥ ३६ ॥ नचैतदप्यसंभाव्यं स्रष्टलं योगिनो यतः ॥ १५७ ॥ करणशक्तिः खतोऽनुभवात् ॥३७॥ स्वतः स्वसादनुभवात् स्वप्नसंकल्पनादिषु । करणं निजसंवेद्यग्राह्यग्राहकनिर्मितिः ॥ १५८ ॥ शक्तिस्तकर्तृतोन्मेषः स्वसंवित्त्यैव सिध्यति । संभवन्ती तथा सृष्टिं यदि दान भावयेत् ॥१५६ ।। सर्वसाधारणाशेषनिर्मितिश्च भवेत्तदा ॥ ५७ ॥ यतः करणशक्त्यात्र शक्तिः स्वातन्त्र्यरूपिणी ॥१६०॥ प्रमातुर्बोधरूपस्य सारं, तस्मात्स्वमायया । तिरोहितायाः स्वातन्त्र्यशक्तरुत्तेजनं प्रति ॥ १६१ ॥

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63