Book Title: Shivsutra Varttikam
Author(s): Varadraja, Madhusudan Kaul
Publisher: Research Department Jammu & Kashmir Srinagar

View full book text
Previous | Next

Page 44
________________ शिवसूत्रवार्तिकम् | [ ३० स्फुटीभवति युक्तस्य पूर्णाहन्तास्वरूपिणी ॥ १४ ॥ २८ नचैवमप्युदासीनेन भाव्यं योगिनापितु ॥ ५७ ॥ बीजावधानम् ॥ १५ ॥ स्फुरत्तात्मा परा शक्तिर्बीजं विश्वस्य कारणम् । तत्रावधानं चित्तस्य भूयोभूयो निवेशनम् ॥ ५८ ॥ योगिना सावधानेन कर्तव्यमिति शिष्यते ॥ १५ ॥ एवंविधो महायोगी परशक्त्यवधानवान् ॥ ५६ ॥ आसनस्थः सुखं हृदे निमज्जति ॥ १६ ॥ आस्यते स्थीयते यस्मिन्नैकात्म्येनेति चासनम् । शाक्तं बलं यत्तत्रस्थस्तदेवान्तः परामृशन् ॥ ६० ॥ योगी परिहृतध्यानधारणादिपरिश्रमः । खेचर्यादिमहास्रोतोवाहप्रसरकारणे ॥ ६१ ॥ स्वच्छत्वादिगुणैर्युक्ते स्वानन्दभरिते दे | संप्लुतेदपदद्वीपे संपूर्णे संविदवे ॥ ६२ ॥ निरस्तसकलोपायो निमज्जति यथासुखम् । देहादिब्रोडनेनैव तन्मयीभवति स्फुटम् ॥ ६३ ॥ १६ ॥ इत्येवमाणवोपायासादितान्मोहनिर्जयात् । उन्मजच्छुद्ध विद्यात्मशाक्तावेशप्रकर्षतः ।। ६४ ॥

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63