________________
वरदराजविरचितम् । योऽयं विमर्शरूपायाः प्रसरन्त्याः खसंविदः । झटित्युच्छलनाकारप्रतिभोन्मजनात्मकः ॥ ३३ ।। उद्यमोऽन्तःपरिस्पन्दः पूर्णाहम्भावनात्मकः । स एव सर्वशक्तीनां सामरस्यादशेषतः ॥ ३४ ॥ विश्वतो भरितत्वेन विकल्पानां विभेदिनाम् । अलं कवलनेनापीत्यन्वर्थादेव भैरवः ॥ ३५ ॥ ५ ॥ अथेग्भैरवापत्तेर्बन्धप्रशमकारणात् । व्युत्थानं च भवेच्छान्तभेदाभासमितीर्यते ॥ ३६ ।।
शक्तिचक्रसन्धाने विश्वसंहारः ॥ ६॥ योज्यमुक्तः स्वसंवित्तेरुद्यमो भैरवात्मकः । अस्यास्ति महती शकिरतिक्रान्तक्रमाक्रमा ।। ३७ ।। निःशेषनिजचिच्छक्तिचक्राक्रमणलम्पटा । रिक्तारितोभयाकाराप्यनेतद्रूपिणी परा ॥ ३८ ॥ ययैव स्वात्मचिद्भित्तौ प्रमेयोल्लासनादितः । परप्रमाविश्रान्तिपर्यन्तस्पन्दरूपया ॥ ३९ ॥ सृष्टिस्थितिलयानाख्याभासाशक्तिप्रसारणात् । प्रपञ्चविषयं चश्चत्पश्चकूत्यं प्रपंचितम् ॥ ४० ॥ तया प्रसारितस्यास्य शक्तिचक्रस्य यत्पुनः । सन्धानमान्तराम्नायाम्नातक्रमविमर्शनम् ॥ ४१ ।। तसिन्सत्यस्य विश्वस्य कालाग्यादिकलावधेः । संहारः स्यात्स्वसंवित्तिवह्निसद्भावलक्षणः॥ ४२ ॥६॥ एवं खसंवित्कालाग्निप्लुष्टभेदस्य योगिनः ।