________________
शिवसूत्रवार्तिकम् । [१ उ० न स्यात्समाधिव्युत्थानभेदः कोऽपीति कथ्यते ॥ ४३ ॥
जाग्रत्वप्नसुषुप्तभेदे तुर्याभोगसंभवः ॥७॥ उद्यमो भैरव इति प्रोक्तरूपं स्फुरद्वपुः । तुर्य नाम परं धाम तदाभोगश्चमक्रिया ॥ ४४ ॥ भेदेऽपि जाग्रदादीनां योगिनस्तस्य संभवः । अनुस्यूतिः परानन्दरूपा स्यादिति शिष्यते ॥४५॥७॥
जाग्रदादित्रयं सूत्रत्रयेण लक्ष्यते क्रमात ।
ज्ञानं जाग्रत् ॥८॥
स्वप्नो विकल्पाः ॥६॥ अविवेको माया सौषुप्तम् ॥ १०॥ ज्ञानं बाह्याच जाग्रत् सर्वसाधारणार्थकम् ॥ ४६ ॥ स्वमः स्वात्मैव संप्रोक्को विकल्पाः स्वात्मसंभवाः । अविवेको निजाख्यातिर्माया मोहस्तदात्मकः ।। ४७ ॥ सौषुप्तं , योगिनामेतत्त्रितयं धारणादिकम् । ईश्वरप्रत्यभिज्ञायां जागराद्यपि लक्षितम् ॥ ४८ ॥ 'शून्ये बुद्ध्याधभावात्मन्यहन्ताकर्तृतापदे । अस्फुटारूपसंस्कारमात्रिणि ज्ञेयशून्यता ॥ ४६ ॥ साक्षाणामान्तरी वृत्तिः प्राणादिप्रेरिका मता । जीवनाख्याथवा प्राणेऽहन्ता पूर्यष्टकात्मिका ॥ ५० ॥