________________
वरदराजविरचितम् । तावन्मात्रस्थितौ प्रोक्तं सौषुतं प्रलयोपमम् । सवेद्यमपवेद्यं च मायामलयुतायुतम् ।। ५१ ।। मनोमात्रपथेऽप्यचविषयत्वेन विभ्रमात् ।
स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ॥ ५२ ॥ सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा । सृष्टिः साधारणी सर्वप्रमातृणां स जागरः ' ।। ५३ ।।
इति विस्तरतः प्रोक्ते लोकयोग्यनुसारतः । जागरादित्रयेऽमुष्मिन्नवधानेन जाग्रतः ।। ५४ ।। शक्तिचक्रानुसन्धानाद्विश्वसंहारकारणात् । तुर्याभोगमयाभेदख्यातिरख्यातिहारिणी ।। ५५ ।। स्फुरत्यविरतं यस्य स तद्वाराधिरोहतः । तुर्यातीतमयं योगी प्रोक्तचैतन्यमामृशन् ॥ ५६ ॥
त्रितयभोक्ता वीरेशः ॥ ११ ॥
जागरादित्रयं प्रोक्तशक्तिचक्रानुसन्धितः । तुर्यानन्दरसासाराच्छुरितं भेदवर्जनात् ।। ५७ । आनन्दरसनिर्मग्नं परमं व्योम भावयन् । त्रितयस्यास्य यो भोक्ता चमत्कर्ता स योगिराट् ॥ ५८ ॥ ' त्रिषु धामसु योग्यं भोक्ता यश्च प्रकीर्तितः । विद्यात्तदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ५६ ॥ इत्युक्तनिष्प्रतिद्वन्द्विसंवित्साम्राज्यवैभवः ।
चिनः स्वात्मविज्ञानपरमानन्दनिर्भरः ।। ६० ।।