________________
शिवसूत्रवार्तिकम् । [१ उ. ज्ञानाधिष्ठानं मातृका ॥४॥ अपूर्णम्मन्यतारूपं भिन्नवेद्यप्रथात्मकम् ॥ २३ ॥ शुभाशुभात्मकाशेषकर्मसंस्कारविग्रहम् । त्रिविधं मलमुक्तं यत्तदेव ज्ञानमुच्यते ॥ २४ ॥ 'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन गम्यते ॥' २५ ।। इत्युक्लनीत्या ज्ञानस्य विविधस्यास्य मातृका । अकारादिक्षकारान्तपञ्चाशद्वर्णविग्रहा ॥ २६ ॥ शिवादिक्षितिपर्यन्ततत्त्वग्रामप्रसूतिभूः ।। 'करंध्रचितिमध्यस्था ब्रह्मपाशावलम्बिकाः ॥ २७ ॥ पीठेश्वर्यो महाघोरा मोहयन्ति मुहुर्मुहुः ।' इतिश्रीतिमिरोद्घाटप्रोक्कनीत्यनुसारतः ॥ २८ ॥ स्वरादिवर्गाधिष्ठातृमातृचक्रपरिष्कृता । अपूर्णोऽहमहं पूर्णोऽहं कृशोऽहं कृशेतरः ॥ २६ ।। इति शब्दानुवेधेन शोकहर्षादिकारिका । अधिष्ठानमधिष्ठात्री, तदधिष्ठानतो नृणाम् ॥ ३० ॥ अलब्धान्तर्मुखखात्मविश्रान्तीनि निरन्तरम् । बहिर्मुखानि ज्ञानानि कथ्यन्ते बन्धहेतवः ॥ ३१ ॥ ४ ॥
अथेदृम्बन्धसंबन्धप्रशमोपाय उच्यते । परमोपेयविश्रान्तिसतत्त्वः परमेष्ठिना ॥ ३२ ॥
उद्यमो भैरवः ॥ ५॥