Book Title: Shivsutra Varttikam
Author(s): Varadraja, Madhusudan Kaul
Publisher: Research Department Jammu & Kashmir Srinagar
View full book text
________________
वरदराजविरचितम् । लोकानन्दः समाधिसुखम् ॥१८॥ लोक्यं लोकयिता चेति लोकश्चेत्यचिदात्मनि । तत्तद्रूपतया तसिंल्लोके स्फुरति योगिनः ॥ ८७ ॥ 'ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् । योगिनां तु विशेषोऽयं संवन्धे सावधानता' ॥८८॥ इत्युक्लनीत्या तत्सर्वमहमित्यनुसंहितेः । आनन्दो यो भवत्यन्तस्तत्समाधिसुखं स्मृतम् ॥८६॥ यत्समाधिसुखं तस्य स्वात्मारामस्य योगिनः । तदेव लोके लोकानामानन्दोऽन्तर्विचिन्वताम् ॥ ६० ॥
विभूतियोगमेतस्य दर्शयत्यथ योगिनः ।
शनिसन्धाने शरीरोत्पत्तिः॥ १६ ॥
इच्छा शक्तिरुमेत्यादिसूत्रोक्ता शक्तिरस्य या ॥ ६१ ॥ सन्धाने योगिनस्तस्यास्तन्मयीभावने सति । तद्वशात्तत्तदिच्छार्हशरीरोत्पत्तिरिष्यते ॥ १२ ॥ १६ ॥
अन्याश्च सिद्धयस्तस्य संभवन्तीत्युदीर्यते ।
भूतसंधान-भूतपृथक्त्व-विश्वसंघट्टाः॥२०॥ भूतानां देहधीप्राणशून्यानां ग्राहकात्मनाम् ॥ ६३ ॥ ग्राह्याणां स्थावराणां च संधानं परिपोषणम् ।

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63