Book Title: Shivsutra Varttikam
Author(s): Varadraja, Madhusudan Kaul
Publisher: Research Department Jammu & Kashmir Srinagar

View full book text
Previous | Next

Page 39
________________ वरदराजविरचितम् । AD शरीरे संहारः कलानाम् ॥ ४॥ महाभूतात्मके स्थूले सूक्ष्मे पुर्यष्टकात्मनि । मूलादिसमनान्ते च शरीरे योगिनः परे ॥ १७ ॥ कलानां तत्र भागानां कार्याणां कारणे निजे । संहारः संविदेकानिसद्भावो लयचिन्तया ॥ १८ ॥ दाहाद्यामर्शयुक्त्या वा ध्यातव्य इति शिष्यते ॥ ४ ॥ एवं ध्यानाभिधानो यः संहारोपाय ईरितः ॥ १६ ॥ एवमेतत्प्रधानांश्च प्राणायामपुरःसरान् । अन्यान्समाधिपर्यन्तानुपायान्दर्शयत्यसौ ॥ २० ॥ नाडीसंहार-भूतजय-भूतकैवल्य भूतपृथक्त्वानि ॥ ५॥ भावनीयानि युक्तेन साधकेनेति शिष्यते । प्राणादिवाहिनाडीनां संहारः प्राणसंयमात् ॥ २१ ॥ रेचकादिक्रमोत्पादादुदानदहनात्मनि । मध्यनाड्यां विलीनखापादनं तन्मयत्वतः ॥ २२ ॥ भूतानां भूजलादीनां जयो यः स उदीयते । 'वायवी धारणाङ्गुष्ठे आग्नेयी नाभिमध्यतः ॥ २३ ॥ माहेयी कण्ठदेशे तु वारुणी घण्टिकाश्रिता । आकाशधारणा मूर्ध्नि सर्वसिद्धिकरी स्मृता ॥ २४ ॥ इति स्वच्छन्दशास्त्रोक्नधारणाभिर्वशीकृतिः ।

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63