Book Title: Shivsutra Varttikam
Author(s): Varadraja, Madhusudan Kaul
Publisher: Research Department Jammu & Kashmir Srinagar

View full book text
Previous | Next

Page 30
________________ अथ द्वितीय उन्मेषः ईदृशं शाम्भवोपायं प्रदर्श्य परमेष्ठिना । इदानीमेतदन्तस्थशाक्कोपायः प्रदर्श्यते ॥ १ ॥ तत्र शक्तिर्महामन्त्रवीर्यविस्फाररूपिणी । इति प्राथमिकोन्मेषपर्यन्ते प्रकटीकृता ॥ २ ॥ तत्स्वातन्त्र्यं विविच्यादावुन्मेषान्तरमान्तरम् । सम्यग्दर्शयता मन्त्रस्वरूपं तावदीर्यते ॥ ३ ॥ चित्तं मन्त्रः॥१॥ चेत्यतेऽनेन परमं स्वात्मतत्त्वं विमृश्यते । इति चित्तं स्फुरत्तात्मप्रासादादिविमर्शनम् ॥ ४ ॥ तदेव मन्त्र्यते गुप्तमभेदेन विमृश्यते । स्वस्वरूपमनेनेति मन्त्रस्तेनास्य दैशिकैः ॥ ५ ॥ पूर्णाहन्तानुसंध्यात्मस्फूर्जन्मननधर्मता । संसारक्षयकृत्त्राणधर्मता च निरुच्यते ॥ ६ ॥ तन्मन्त्रदेवतामर्शप्राप्ततत्सामरस्यकम् । आराधकस्य चित्तं च मन्त्रस्तद्धर्मयोगतः ॥ ७ ॥ अस्य चोक्तस्य मन्त्रस्य मननत्राणधर्मिणः ।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63