________________
अथ
द्वितीय उन्मेषः
ईदृशं शाम्भवोपायं प्रदर्श्य परमेष्ठिना । इदानीमेतदन्तस्थशाक्कोपायः प्रदर्श्यते ॥ १ ॥
तत्र शक्तिर्महामन्त्रवीर्यविस्फाररूपिणी । इति प्राथमिकोन्मेषपर्यन्ते प्रकटीकृता ॥ २ ॥ तत्स्वातन्त्र्यं विविच्यादावुन्मेषान्तरमान्तरम् । सम्यग्दर्शयता मन्त्रस्वरूपं तावदीर्यते ॥ ३ ॥
चित्तं मन्त्रः॥१॥ चेत्यतेऽनेन परमं स्वात्मतत्त्वं विमृश्यते । इति चित्तं स्फुरत्तात्मप्रासादादिविमर्शनम् ॥ ४ ॥ तदेव मन्त्र्यते गुप्तमभेदेन विमृश्यते । स्वस्वरूपमनेनेति मन्त्रस्तेनास्य दैशिकैः ॥ ५ ॥ पूर्णाहन्तानुसंध्यात्मस्फूर्जन्मननधर्मता । संसारक्षयकृत्त्राणधर्मता च निरुच्यते ॥ ६ ॥ तन्मन्त्रदेवतामर्शप्राप्ततत्सामरस्यकम् । आराधकस्य चित्तं च मन्त्रस्तद्धर्मयोगतः ॥ ७ ॥
अस्य चोक्तस्य मन्त्रस्य मननत्राणधर्मिणः ।