________________
वरदराजविरचितम् । परा भट्टारिका संविदिच्छाशक्तिपुरःसरम् । स्थूलप्रमेयपर्यन्तं वमन्ती विश्वमान्तरम् ॥ १०३ ॥ प्रमात्रन्तर्वहीरूपहषीकविषयात्मनाम् । खेचर्यादिप्रवाहाणां बाह्याभ्यन्तररूपिणाम् ॥ १०४ ॥ प्रवर्तकखात् स्वच्छत्वगम्भीरत्वादिधर्मतः । महाड्दो जगद्यापी देशकालाधगोचरः ॥ १०५ ॥ अन्तस्तस्यानुसन्धानात्तादात्म्यस्यावमर्शनात् । अकारादिक्षकारान्तशब्दराशिप्रथात्मनः ॥ १०६ ॥ क्षित्यादिशिवपर्यन्ततत्त्वान्तःक्षोभकारिणः । मत्रवीर्यस्य सर्वेषां मन्त्राणां प्राणरूपिणः ॥ १०७ ॥ पराहन्तापरामर्शमयस्यानुभवः स्फुटम् ।। अखिलं वाचकं वाच्यमहमित्यवमर्शनम् ॥ १०८ ॥ योगिनः सावधानस्य भवतीत्येव शिष्यते । स्फुटीकरोमि संक्षेपाचप्रमेयं पुरोदितम् ॥ १० ॥ महाद इति प्रोक्ता शक्तिर्भगवती परा । अनुसन्धानमित्युक्तं तत्तादात्म्यविमर्शनम् ॥ ११० ॥ मन्त्रवीर्यमिति प्रोक्तं पूर्णाहन्ताविमर्शनम् । तदीयोऽनुभवस्तस्य स्फुरणं स्वात्मनः स्फुटम् ॥१११ ।।
इति श्रीशाम्भवोपायप्रकाशनपरायणः । उन्मेषः प्रथमः सम्यक्स्वरूपोन्मेषलक्षणः ॥ ११२ ।
इति श्रीकृष्णदासापरपर्यायवरदराजविरचिते शिवसूत्रवार्तिके शाम्भवोपायप्रकाशनं
बाम प्रथम उन्मेषः ॥१॥