________________
शिवसूत्रवार्तिकम् । [.उ. पृथक्त्वमथ विश्लेषो व्याध्यादिक्लेशशान्तये ॥ १४ ॥ विश्वस्य देशकालादिविप्रकृष्टस्य यत्पुनः । संघदृश्चक्षुराद्यक्षप्रत्यक्षीकरणादिकम् ॥ १५ ॥ एतत्सर्व भवेच्छक्तिसंधाने सति योगिनः ॥ २० ॥
यदा परिमिताः सिद्धीरनिच्छन्पुनरिच्छति ॥ १६ ॥ विश्वात्मताप्रथारूपां परां सिद्धिं , तदास्य तु ।
शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः ॥ २१ ॥ वैश्वात्म्यप्रथनाकाङ्क्षी सन्धत्ते शक्तिमात्मनः ॥ १७ ॥ यदा योगी तदा तस्य सदाशिवपदस्पृशः । 'ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः ॥ ८ ॥ सामानाधिकरण्यं च सद्विद्याहमिदंधियो' । इति नीत्या जगत्सर्वमहमेवेति या मतिः ॥ ६ ॥ सा शुद्धा निर्मला विद्या, तदीयादुदयात्स्फुटम् । उन्मजनात्स चिच्छक्तिमात्मनो नित्यमामृशेत् ॥ १०॥ यदा योगी, तदा तस्य चक्रेशबमनुत्तरम् । माहेश्वर्य समावेशोत्कर्षात्सिद्ध्यति योगिनः ॥ १०१ ॥
-
विश्वात्मकतदुत्तीर्णखात्मारामखमेव सः । इच्छति स्वच्छचिद्रूपो यदा योगी , तदास्य तु ॥१०२॥ महाहदानुसन्धानान्मंत्रवीर्यानुभवः ॥ २२ ॥