Book Title: Shivsutra Varttikam
Author(s): Varadraja, Madhusudan Kaul
Publisher: Research Department Jammu & Kashmir Srinagar
View full book text
________________
वरदराजविरचितम् ।
कुमारी चोपभोग्यास्य योगिनो भैरवात्मनः ॥ ६६ ॥ कुमारी नान्यभोग्या च भोकात्म्येन तिष्ठति । उमा कुमारी संत्यक्तसर्वाङ्गा महेशितुः ॥ ७० ॥ आराधनपरा तद्वदिच्छा शक्तिस्तु योगिनः । अयमेव स्फुटः पाठो दृष्टोऽनुत्तरदैशिकैः ॥ ७१ ॥ व्याख्यातश्च परैः शक्तितमेतिपठनात्पुनः । प्रकर्षो व्याकृतोऽमुष्याः शक्तेर्ज्ञानक्रियात्मतः ॥ ७२ ॥
एवमीदृक्प्रभावेच्छाशक्तियुक्तस्य योगिनः ।
दृश्यं शरीरम् ॥ १४ ॥
यद्यदृश्यमशेषं तच्छरीरं तस्य योगिनः ॥ ७३ ॥ अहमित्यपृथक्त्वेन पतिवत्प्रतिभासनात् । शरीरं देहभीप्राणशून्यरूपं घटादिवत् ॥ ७४ ॥ दृश्यमेवास्य, पशुवत् द्रष्टृत्वेन न भासते । एवं देहे च बाह्ये च सर्वत्रैवास्य योगिनः ॥ ७५ ॥ मयूराण्डरसन्यायात्प्रतिपत्तिरभेदिनी ॥ १४ ॥
दृश्यं शरीरतामेति शरीरं चापि दृश्यताम् ॥ ७६ ॥ इत्युक्तं योगिनो यत्तन्न दुर्घटमितीर्यते ।
हृदये चित्तसंघट्टाद्दृश्यस्वापदर्शनम् ॥ १५ ॥
'हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥ ७७ ॥

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63