Book Title: Shilvati Sati Kathanakam
Author(s): Hansvijay Jain Library Granthmala
Publisher: Hansvijay Jain Library Granthmala

View full book text
Previous | Next

Page 4
________________ Scanned by CamScanner शीलवती. कथानकम् ॥१॥ | अस्ति श्रीनन्दनपुरं, स्वःपुरं किल भूतले ॥५॥ यत्र स्फाटिकहायो-च्छलत्कान्ति कदम्बकैः । हस्यमान इव व्योनि, क्षीयते क्षणदापतिः ॥६॥ तत्रारिमर्दनो राजा, | यस्य विष्टपमण्डपे । यशश्चन्द्रोदयः स्फार तारविच्छित्तिभाग् बभौ ॥७॥ मान्यस्तस्य सदाचारः, श्रेष्ठी रत्नाकराभिधः । श्रीनामधेया तज्जाया, निरपायगुणोदया ॥८॥ श्राद्धधर्ममनाबाधं, पालयन्नयमायतौ। सुखहेतुं चिरेणापि, न लेभे पुत्रसन्ततिम् ॥९॥ पुत्राभावान्महादुःख-पीडिता श्रीरथान्यदा। श्रीः श्रेष्ठिनमभाषिष्ट, शिष्टाचाराविरोधिनी ॥१०॥ चैत्याग्रे जिननाथस्य, स्वामिन्नुपवने पुरः । देवी व्यक्तमहाशक्ति-रास्तेऽजितबलाभिधा ॥११॥ सा च पुत्रानपुत्राणां, निर्द्धनानां धनानि च । दुर्भगानां च सौभाग्यान्याधत्ते सेविता सती ॥१२॥ पुनः-अभजाण भजं अभुजाण भुजं, अरजाण रज़ अविजाण विजं । असुक्खाण सुक्खं अचक्खूण चक्, सरोयाण रोयक्खयं देइ एसा ॥१३॥ तदार्यपुत्र ! तस्यास्त्व-मुपयाचितुमर्हसि। पुत्रार्थे हि विधीयन्ते, स्वप्राणा अप्यु ॥१॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26