Book Title: Shilvati Sati Kathanakam Author(s): Hansvijay Jain Library Granthmala Publisher: Hansvijay Jain Library Granthmala View full book textPage 7
________________ Scanned by CamScanner ॥ ३३ ॥ सोऽप्यत्रैव मया सार्द्ध-मागतोऽस्ति धियांनिधिः । इतिकर्तव्यता तस्मात्, श्रेष्ठिन्नादिश्यतां मम ॥ ३४ ॥ श्रेष्ठी प्राह महाभाग !, साध्वेवोपकृतं त्वया । जातश्च सर्वलाभेभ्यो, महालाभोऽयमेव मे ॥३५॥ ससत्कारमथाहृतः, श्रेष्ठिसूर्जिनशेखरः।। ददावजितसेनस्य, यामि शीलवतीं मुदा॥३६॥ययावजितसेनोऽपि, सार्ध तेनैव तां पुरीम्। परिणीय महद्धर्या च, समियाय निजं गृहम् ॥३७॥स तया गृहलक्ष्म्येव, स्वगोत्रामृतकुल्यया । त्रिवर्गसारं गार्हस्थ्य-धर्म चिरमपालयत् ॥३८॥ शिवाशब्दमथाका -न्यदा शीलवती सती। निशीथे निर्गता गेहाद्, घटमादाय मूर्धनि॥३९॥ तदानीं श्वसुरस्तस्याः, कामिन्येव जरद्गवः । निद्रया दूरतस्त्यक्तः, तां ददर्श महासतीम् ॥४०॥ विकल्पोदधिनिर्भमः, चेतस्येवमचिन्तयत् । कुशीलां कलयाम्येना-ममीभिर्लक्षणैर्वधूम् ॥४१॥ सद्गोत्रजा अपि घन-रसकल्लोलसंकुलाः। प्रायः स्त्रियो भवन्त्येव, निम्नगा इव नीचगाः ॥४२ एताः स्वार्थपरा नार्यो, बहिरेव मनोहराः । अत्यन्तदारुणाश्चान्तः, स्वर्णाक्तPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26