Book Title: Shilvati Sati Kathanakam Author(s): Hansvijay Jain Library Granthmala Publisher: Hansvijay Jain Library Granthmala View full book textPage 9
________________ Scanned by CamScanner दोषातु,विषवल्लेविशेष्यते॥५३॥किञ्च-को नाम स्त्रीषु विश्वास?, श्वासस्येव शरीरिणाम्। स्वार्थैकवशतः शील-मासां विद्युल्लतायते ॥ ५४ ॥ यदुक्तम्-न बध्यन्ते गुणैः पत्युः, न लक्ष्यन्ते परीक्षकैः । न धनेन च धार्यन्ते, शीलत्यागोद्यताः स्त्रियः ॥५५॥ शास्त्रेषु श्रूयते यत्तु, यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं, तन्नार्यः कामविह्वलाः ॥५६॥ निशीथेऽद्य गता कापि, नीराहरणदम्भतः। यामेन पुनरप्यागात् , जाग्रतो मे वधूरियम् ॥५७॥ अवेहि तदिमां वत्स !, दुर्वृत्तां त्यजनोचिताम् । गुर्वादेशपराधीन-स्तथेत्युक्त्वा गतः सुतः ॥ ५८ ॥ श्रेष्ठी कूटप्रयोगेण, तस्याः प्रातरजज्ञपत् । त्वामाह्वयति ते तातो, वत्से ! मिलितुमुत्सुकः ॥५९॥ ज्ञात्वा रात्रिविकल्पं तं, विदग्धा शीलवत्यपि । अनुमाने परीक्षायां, किं जात्यं हेम कम्पते ? ॥६०॥ स्यन्दनं प्रगुणीकृत्य, शीलवत्या समन्वितः। स्वयं रत्नाकरः श्रेष्ठी, चचाल कृतमंगलम् ॥६१॥ मार्गे नद्यामुपेतायां, श्रेष्ठी शीलवतीं जगौ । पादत्राणे परित्यज्य, वत्से ! सञ्चर पाथसि ॥६२॥ किञ्चिद्विचार्य साप्यन्त-स्तेPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26