Book Title: Shilvati Sati Kathanakam
Author(s): Hansvijay Jain Library Granthmala
Publisher: Hansvijay Jain Library Granthmala

View full book text
Previous | Next

Page 15
________________ Scanned by CamScanner उद्वसस्तदयं ग्रामः, कथमूचे जनाकुलः? ॥११॥ साऽख्यत ख्यातमेवेदं, तात! स्थानेन किं ? जनः। यत्रास्ति वजनः कोऽपि, तच्छ्न्य मपि सुंदरम् ॥१२॥ भवंतमागतं श्रुत्वा, यदत्र मम मातुलः । यच्चकार तथा तेना-स्माकं तेन जनाकुलः ॥१३॥ ततो हेतुशताश्लिष्टं, चाणक्यस्येव जल्पितम् ॥ वध्वा व्यवसितं सर्व, साभिप्रायमसौ विदन् ॥ १४ ॥ क्रमेण संगतो मार्ग-जुषो वटतरोस्तले ॥ वधू पप्रच्छ किं वत्से!, छायाऽस्य मुमुचे तदा?॥१५॥ युग्मम् ॥साऽऽह श्वसुर! किं नेदं,श्रुतपूर्वमपि क्वचित् ?॥ वायसश्चेदटारूढो, वनिताशिरसि स्रवेत् ॥१६॥ षण्मासाभ्यन्तरे पत्यु-स्तदापायो भवेन्महान् ॥ वृक्षमूले च सर्पादि-भवाद्या दोषराशयः ॥ १७॥ युग्मम् ॥ तदस्तापायमाचीणे, वरं स्वाधीनकर्मणि ॥ परिहृत्य वटच्छाया-मतोऽस्थामहमातपे ॥१८॥ साधु साधु कुला धारे!, सर्वभावविचक्षणे! ॥ वृद्धत्वेन वयं वीत-मतयो बोधितास्त्वया ॥१९॥ श्लाघ| मानो वधूमित्थं, पमाणः स्वकर्मणा ॥ पुनः पप्रच्छ किं वीरः, सुकुट्टित इतीरितः? | ॥ २० ॥ अभ्यधत्त वधूस्तात!, तत्प्रहारा न सम्मुखाः ॥ प्रहारैः पृष्ठगैरेव, प्रणश्यन्

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26