Book Title: Shilvati Sati Kathanakam
Author(s): Hansvijay Jain Library Granthmala
Publisher: Hansvijay Jain Library Granthmala

View full book text
Previous | Next

Page 24
________________ Scanned by CamScanner श्रीलबनी। कसानका भद्राः केयमवस्थाकः, काकानामिव रोगिणाम? यथावृत्तःस्ववृत्तांतः, तैरप्यूचे क्रमादया राजा शीलवतीशीलं, शश्लाघे धूनयन् शिरः॥७॥ आकार्याऽऽख्यदहो ! बुद्धि-कौशलं ते | पतिव्रते! शीलपालनयत्नेना-मुष्या श्लाघा न कस्यचित् ॥८॥ अम्लानया तदा पुष्पमालयैव मया स्फुटम् । ज्ञातं ते शीलमाहात्म्य-मज्ञानाद्यदिदं कृतम् ॥९॥ तत्क्षंतव्यं न कोपोऽत्र, कार्यों वंधुसमे मयि । सापि तं वोधयामास, जिनधर्मोपदेशतः ॥१०॥ परदारानिवृर्ति च, कारिता नर्ममंत्रिणः । सत्कृत्य प्रेषिता राज्ञा, सती स्वगृहमासदत् ॥ ११ ॥ विशिष्याजितसेनोऽपि, राजकार्यधुरंधरः। शीलवत्या समं धर्म-सारं कालमवाहयत् ॥१२॥ तत्रागतश्चतुर्ज्ञानी, दमघोपाभिधो मुनिः। ययावजितसेनोऽपि, तं नंतुं वल्लभायुतः ॥१३॥ | देशनाते मुनिः शील-वती भाषितवान् गुरुः । भद्रे ! पूर्वभवाभ्यासाद, भाति ते शीलमुज्वलम् ॥१४॥ कथमजितसेनेन, पृष्टः प्रांजलिना गुरुः । ऊचे कुशपुरे स्थाने, श्रावकः सुलसामिधः ॥१५॥ तद्भार्या सुयशा गेहे, तयोर्दुगतनामकः । प्रकृत्या भद्रको मृत्यस्तद्भार्या दुर्गिला पुनः ॥ १६ ॥ सार्ध सुयशसाऽन्येयुः, यतिनीवसतिं ययौ । दुर्गिला

Loading...

Page Navigation
1 ... 22 23 24 25 26