Book Title: Shilvati Sati Kathanakam
Author(s): Hansvijay Jain Library Granthmala
Publisher: Hansvijay Jain Library Granthmala

View full book text
Previous | Next

Page 12
________________ Scanned by CamScanner कथानकम ॥५॥ शीलवती. ॥८॥ करीरस्तम्बमारूढ-स्तावता करटोऽरटत्।तभाषामुपलभ्येह,किं रे!करकरायसे? | ॥८३॥ श्रुत्वेति चिन्तयामास, श्रेष्ठी वातकिनी ह्यसौ । दुराचारा नराभावाद्, भाषते शकुनैरपि ॥८४॥ काके करम्भकालोक-जातोत्कण्ठे रटत्यलम् । विमृश्यावसरं दूरं, सती PI निःशंकमाख्यत ॥ ८५ ॥ वियुक्ता दुर्नयेनाहं, पत्युरेकेन रे द्विक ! पित्रोरपि द्वितीयेन, कृतेन न मिलामि तु ॥८६॥ जागरूकस्ततः श्रेष्ठी, साभिप्रायमिदं वचः। श्रुत्वा पप्रच्छ किं वत्से ! दुःखिन्येवेत्युदीर्यते॥८७॥ साऽभ्यधावच्मि नो किञ्चित्, श्रेष्ठी प्राह श्रुतं मया। R] निर्बन्धात् तेन पृष्टा सा, जगौ निःशंकमानसा ॥८॥ ततोऽहं वच्मि यत्किञ्चित्, तत्सत्यं । त्वमवेहि वै । दोषाय मे गुणा एव, जाताश्चन्दनवद्यतः ॥८९ ॥ छेदोद्घर्षणमातप | प्रसहनं यन्निर्दयोन्मूलनं, तीक्ष्णैकक्रकचेन पाटनमहो! यद्भोगिभिर्वेष्टनम् ।कष्टं चन्दन- पादपेन युगपत्प्राप्तं गुणेभ्यः फलं, केषांचिद् गुणिनां गुणो विधिवशात्क्लेशाय नाशाय च | ॥ ९० ॥ बाल्ये बन्धूपरोधेन, सर्वशास्त्रशिरोमणि । अहमध्येयि मूढात्मा, शास्त्रं

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26