Book Title: Shilvati Sati Kathanakam
Author(s): Hansvijay Jain Library Granthmala
Publisher: Hansvijay Jain Library Granthmala

View full book text
Previous | Next

Page 11
________________ च्छायां परिहृत्य सुदूरतः । आतपे पटमावृत्य, तस्थौ स्थिरमतिप्रभा ॥ ७३ ॥ श्रेष्ठी प्राह जिनदत्तां-गजे ! छायामुपाश्रय । श्रुत्वाऽप्यश्रुतकेनेव, साऽस्थाद् गजनिमीलया ॥७४॥ अहो ! वास्तिवामेयं, न शिक्षार्हा कुशिष्यवत् । इत्युपेक्ष्य स्वयं तस्थौ, तच्छायाससुखासिकः ॥ ७५ ॥ ततः क्वापि गतः श्रेष्ठी, कर्बटे तत्र गत्वरीः । कुटीस्त्रिचतुरा वीक्ष्य, ग्रामं दुस्थमुदाहरत् ॥ ७६ ॥ ततः शीलवती किंचिद, विमृश्य मतिमद्वरा । जनतासंकुलं स्थान - मिदमित्युच्च कैर्जगौ ॥७७॥ सर्वथा विपरीतेयं, कुशिक्षिततुरंगवत् । इति यावद् विषण्णात्मा, श्रेष्ठी चेतस्यचिन्तयत् ॥ ७८ ॥ तावता मातुलस्तस्या - स्तमभ्येत्य सर्गौरवम् । श्रेष्ठिनं स्वगृहे नीत्वा, भोजनाद्यैरुपाचरत् ॥ ७९ ॥ साग्रहं स्थाप्यमानोऽपि, तेन श्रेष्ठी तु सोत्सुकः । प्रतस्थे सवधूकस्त- त्क्लुप्त वस्त्रादिसत्कृतिः ॥ ८० ॥ सम्प्राप्तप्रातर वृक्ष - च्छायायाममुचद्रथम् । भुक्त्वा तदुपरि श्रेष्ठी, क्षणं श्रान्तश्च सुप्तवान् ॥ ८१ ॥ वधूरपि पितुर्गेहं ततोऽभ्यर्ण विजानती । शुभाचारा स्वकर्माप्ति-हृष्टा भोक्तुमुपाविशत् Scanned by CamScanner

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26