Book Title: Shilvati Sati Kathanakam
Author(s): Hansvijay Jain Library Granthmala
Publisher: Hansvijay Jain Library Granthmala

View full book text
Previous | Next

Page 6
________________ शीलवती. ॥२॥ अद्राक्षं कन्यका तत्र, खर्गाद भ्रष्टां सुरीमिव ॥२॥ केयमित्यहमद्राक्षं, ततो विस्मितमानसः । श्रेष्टी प्राह तनूजेयं, मम चिन्तेव देहिनी ॥ २५ ॥ यतः - किं प्राप्स्यति वरं श्रेष्ठं ?, तदिष्टा किं भविष्यति ? । किमसौ श्वसुरादीन् वा, स्वगुणै रञ्जयिष्यति ? ॥ २६ ॥ पालयिष्यति किं शीलं?, प्रसविष्यति किं सुतम् ? । श्वसुरादिकवर्गोऽस्याः, कथं वा तोषयिष्यति ? ॥२७॥ सवत्वं भवेदस्याः, सपत्न्यो मा भवन्तु च । यातरो मास्म दुष्येयुः, चिन्ता मूर्खेव कन्यका ॥ २८ ॥ एषा च गुणमाणिक्य - रोहणाचल भूमिका । पक्षिशउदान्तसर्वागि- भाषाविज्ञानदक्षिणा ॥ २९ ॥ कन्येयं शीलवत्याख्या, ख्याता रूपकलागुणैः । तदस्यां योग्यजामातृ - चिन्ता मे बाधतेतराम् ||३०|| मयोक्तं देव! मा चिन्तां कुरु श्रीनन्दने पुरे । अस्या योग्यो वरो ह्यस्ति, रत्नाकरसुतोऽजितः ॥३१ ॥ जिनदत्तोऽभ्यधाद्भद्र !, साधु साधु त्वयोदितम् । वरचिन्तोदधौ मग्नो, भवताद्य समुद्धृतः॥३२॥ उक्त्वेत्यजितसेनस्य, दातुं शीलवती सुताम् । जिनशेखर नामानं, प्रजिघाय निजं सुतम् कथानकम् ॥ २ ॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26