Book Title: Shantinath Mahakavyam Part 01
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ [210 ] मूर्ति-रेवीप्रतिमां / परित:-सर्वतः। मधुनताकवसिद्धविद्यालपाणि-मतानां भ्रमराणामाकर्षणे सिद्धविद्या सिद्धमन्त्रः तद्रपाणि / मनोहराषि, पुष्पाणि, आरोग्य-मूषयित्वा / पुरस्ताव-देव्यप्रे। बनेकपाऽपि-नानाप्रकारं / नैवेद्य-समर्पणीयपकानादिद्रव्यं / निधाय-उपढौक्य // 41 // मृगचर्विता:-मृगैः चर्वितानि भक्षितानि अप्राणि येषां तैः तादृशैः / अदप्रदर्भ:-अप्रैः पुष्कलैः दर्भः कुशैः / अस्तदोषम्-अम्त. निरस्तः दोषः यतः तत् विशुद्धं / संस्तारकम्-संस्तरम् / आस्तीर्य-प्रसार्य / भवत्प्रसादाव-भवत्याः प्रसादादनुपहेण / मे-मम / इयं-बुद्धिस्था / वाञ्छा-'वांछा लिप्सा मनोरथ' इत्यमरः अचिरेण-शीघ्रम् / सफला-पूर्णा / भवतु इति- इत्थम्। उदित्वा-उक्त्वा // 42 // नाना-प्रकारः, ललितः-मधुरैः। सुतैः– शोभनपयैः "वृत्तं पधे" इत्यमरः / उदग्र :- उन्नतैः, प्रसिद्धः। महा:-सारवति। स्तवन:-स्तोत्रैः। स्तुत्वा-सम्पाये / देवि ! अयं जनः, तव प्रसादे, प्रासति / समत्यास्पति-इत उत्थाता नान्यथा / इति च जन्मन्-बदन // 4 // विगर्व:-अभिमानरहितः, एतेन मनश्शुद्धिरुक्तति बोध्यम् / स्वदेहसामर्थ्य-मम शरीरं नियमपरिपालने समर्थ वा नेति / अचिन्तयित्वा-एतेनोत्साहसम्पन्नता सूचिता / वरप्राप्तिसमानकालं-वरप्राप्तेः समानः कालः वरप्राप्तिकालः तं / यावत्-तत्पर्यन्तम् / आहारमजीपरिहाररूपम्-आहारस्य भङ्गी चेष्टा भक्षणम् तस्य परिहारस्त्यागः तपम् / अखव-महद / नियम-व्रतं, प्रतिक्षां वा / कुर्वन् // 44 // नवाम्बुदचालितशमशैलावदातवासा:-नवाम्बुदेन नवजलधरेण क्षालितोधोतो यः शम्भुशैलः कैलासपर्वतः, स इव अवदातम् शुद्धवर्ण वासः वस्त्रं यस्य स तादृशः, परिहित वनः / विकसन्मुखश्री:-विकसन्ती प्रफुला मुखश्रीः मुखशोभा यस्य सः,विकसिताननः, एतेन कार्यसिद्धौ श्रद्धोक्ता / प्रशस्या-स्तुत्यः, तादृशवताङ्गीकारस्य महत्त्वसम्पादकत्वादिति भावः / नहि क्षुद्रण महावसं साध्यमिति / शुद्धमना:- विषयनिवृत्तचेताः, एतेन भक्तिरुक्ता / देवीचरणारविन्दद्वयस्याग्रतः, सुम्बाप-शिश्ये // 45 // ( सप्तभिः कुलकम् ) अथ कुलदेवतातुष्टिमाह-अथ प्रमेतिअथ प्रभापूरहतान्धकारा, तद्ध्यानकाष्ठाचलितासना सा। निशावसाने विदितप्रभावा, तुष्टा बभाषे कुलदेवता तम् // 46 //

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282