Book Title: Shantinath Mahakavyam Part 01
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 260
________________ [251 ] समागतं तं समवेक्ष्य सोऽपि, छात्रेषु सर्वेष्वपि भासमानम् / नरेन्द्रपुत्रः परमं प्रमोदं, योगीव लेभे प्रतिभासमानम् // 167 // व्याख्या-सर्वेष्वपि, छात्रेषु, भासमानं-तेजसा विराजमानं / तं-मङ्गलकुम्भं / समागतं, समवेक्ष्य-विलोक्य / सोऽपि, नरेन्द्रपुत्रः-पुंवेषा त्रैलोक्यसुन्दरी / योगी इव - यथा योगी आत्मसाक्षात्कारेण परमानन्दं विन्दति तथा / प्रतिभासमानम्- उल्लसन्तं / परमं प्रमोदं-हर्ष / लेभे-प्राप // 167 / / अथ मङ्गलकुम्भस्य विस्मयमाह-वणिगितिवणिक्कुमारोपि कुमारधामा, कुमारमालोक्य विसिष्मिये तम् / इयं किमाकल्पविपर्ययेण, प्रिया मदीया समुपागता सा // 168 // व्याख्या-कुमारधामा-कुमारः कार्तिकेयः स इव धाम तेजो यस्य स तादृशः / वणिक्कुमार:मङ्गलकुम्भः / अपि, तं कुमारं-कृत्रिमराजपुत्रम् / आलोक्य, विसिष्मिये-आश्चर्यितो बभूव / किमाश्चर्यमित्याह / आकल्पविपर्ययेण-वेषपरिवर्त्तनेन “वेषो नेपथ्यमाकल्पः” इति हैमः / इयं-दृश्यमाना / मदीया-मम सा परिणोता / प्रिया, समागता, किम् ? संशयः समानमुखाकृत्यादिदर्शनादिति भावः // 168 // अथच्छात्रसत्कारमाह भोज्यैर्विचित्रैर्वसनैरनेकै - रमानयच्छात्रजनं समस्तम् / यं मङ्गलेऽसौ विदधे विशेष, तेनैव जज्ञे स च साभ्यसूयः // 169 // व्याख्या--विचित्रैः-नानाविधैः / भोज्य:-पक्वान्नादिभिः / अनेक वसनैः-वस्त्रैश्च / समस्तंसर्वमेव / छात्रजनम् , अमानयत्-संमानितवान् / असौ-त्रैलोक्यसुन्दरी / मङ्गले-मङ्गलकुम्भे / यं विशेषम्-अधिकं सत्कारं / विदधे-चकार / तेनैव-हेतुना / सः-छात्रजनः / साभ्यसूयः-परोत्कर्षासहिष्णुः / जज्ञे च-जातवांश्च / / 16 / / ताँस्तीर्थयात्रोपगतानिवार्य, समान्य सर्वानपि भाषते स्म / आख्यानिकां कोऽपि भवत्सु मेऽग्रे, निजानुभूतां सरसां ब्रवीतु // 170 //

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282