Book Title: Shantinath Mahakavyam Part 01
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 261
________________ [ 252 ] व्याख्या-अयं त्रैलोक्यसुन्दरी / तीर्थयात्रोपगतान-तीर्थयात्रया उपगतान् समागतान् / इव, सर्वानपि-तान्, छात्रान् / सन्मान्य-सत्कृत्य / माषते स्म-अभाषत, किमित्याह / भवत्सु-मध्ये / कोऽपि, निजानुभूतां, सरसां-प्रियाम् / आख्यानिकां-कथां / मे-मम / अग्रे, ब्रवीतु-कथयतु // 170 / / विज्ञप्तिमाकर्ण्य नपाङ्गजस्य, गुरुर्जगौ तान्प्रति जल्पतेति / ते साभ्यसूया जगदुः स एव, वक्ता कथां यत्र कृतो विशेषः // 171 // व्याख्या-नृपाङ्गजस्य-राजपुत्रस्य, (त्रैलोक्यसुन्दर्याः) / विज्ञप्तिम्-निवेदनम् / आकर्ण्य, गुरु:उपाध्यायः / तान्-छात्रान् ' प्रति-यूयं / जल्पत-ब्रूत / इति-इत्थं / जगौ-आदिष्टवान् / ते, छात्राः, साभ्यसूया:-समत्सराः, सन्तः / जगदुः, स एव, कथां, वक्ता, यत्र-छात्रे / विशेषः-अधिकसत्कारः / कृत:-विहितः, वयं तु न तथा सत्कृता इति न अस्माभिर्वक्तव्यमिति भावः // 171 // . अथ मङ्गलकुम्भस्य कथाऽऽख्यानमाह-अथेतिअथ स्वयं मङ्गलकुम्भ एतां, बुद्धया विबुध्यात्मवधूमधूतः / विवाहमुख्यं सकलं स्ववृत्तं, सिंहादिकानां पुरतो बभाण // 172 // व्याख्या-अथ, मङ्गलकुम्भः, एतां-पुरतो वर्तमानाम् / बुद्धया-तर्केण / आत्मवधू-स्वप्रियां / विबुध्य-ज्ञात्वा / अधूत:-अकम्पितः संशयादिरहितः सन् / स्वयं, सिंहादिकानां, पुरत:-अप्रे / विवाहमुख्यं, सकलं, स्ववृत्तं-निजवृत्तान्तं / बभाण-जगाद / / 172 / / अथाध्यापकादेस्ततोऽपसरणमाह-गृहीतेतिगृहणीत गृणीत जवेन चैन-मित्युद्धतं जल्पति राजपुत्रे / छात्रैः समं पण्डित एव नष्टः, स काकनाशं कलितात्मभीतिः // 173 // ___ व्याख्या-एनं-छात्रं / जवेन-शीघ्रं / गृहीत गृहीत-वीप्सायां द्विरुक्तिः / इति-इत्थम् / उद्धत–तारस्वरं / राजपुत्रे-पुंवेषायां त्रैलोक्यसुन्दयां / जन्पति-भाषमाणे सति / कलिता प्राप्ता आत्मनि भीतिर्येन स कलितात्मभीति:-भीतः सन् / सः, पण्डितः, छात्रैः सम, काकनाशम्-काको यथा भीत्या नश्यति पलायते तथा / नष्ट:-पलायितः / एव-न तु क्षणमपि तत्र तस्थौ, तस्य कथाख्यानेन स्वस्य कुतोऽपि सापराधत्वशक्येति भावः // 173 //

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282