Book Title: Shantinath Mahakavyam Part 01
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 273
________________ [ 264 ] व्याख्या-अथ-अर्हति उपदेशदानाद्विरते। अहं-विद्याधरः / अर्हन्तं-श्रीजिनेश्वरम् / एतंयद्वा / एवं-वक्ष्यमाणप्रकारेण / अपृच्छम् तदेवाह / प्रतिपत्पटिष्ठ-प्रतिपद्भिः ज्ञानैः पटिष्ठ ! समर्थ !, तथा / प्रणतानुकम्प्र-प्रणतेषु अनुकम्प्र ! दयालो !, मम, विद्याधराणाम् , आधिपत्यं-विद्याधरेशत्वं / कथं-केन प्रकारेण / अघटिष्ट-जातम् / इदं वस्तु प्रकाशय-कथय / / 09 / / अथार्हतः तवृत्तान्तकथनमाह-जिनोजददितिजिनोऽवदत्पश्चिमपुष्कराड़े, सीतोदकाऽस्ति प्रतता स्रवन्ती / कूलेऽनुकूले सलिलावतीति, ख्यातोऽस्ति तस्या विजयः समृद्धः // 210 // व्याख्या-जिन:-अर्हन् / अवदत-किमित्याह / पश्चिमपुष्कराद्धे. सीतोदका-सीतोदाख्या / प्रतता-विस्तृता / स्रवन्ती-निम्नगा, नदोत्यर्थः, 'सवन्ती निम्नगाऽऽपगा' इत्यमरः / अस्ति, तस्याःनद्याः / अनुकूले-रमणीये / कूले-तीरे, 'कूलं रोधश्च तीरं चे' त्यमरः / सलिलावती इति ख्यातःसलिलावतीनाम्ना प्रसिद्धः / समृद्धः-लक्ष्मीसंपन्नः / बिजयः, अस्ति / / 210 // द्वेधाऽपि तस्मिन्नपि वीतशोका, पुरी परीता पुरुषोत्तमौथैः / निषेवते यां परिचारिकेव, लक्ष्मीरनन्ताश्रयवाञ्छयेव // 211 // व्याख्या-तस्मिन्नपि-तस्मिंश्च, विजये / पुरुषोत्तमौधः-पुरुषोत्तमानां पुरुषश्रेष्ठानाम् , अथ च विष्णूनाम् ओधैः वृन्दैः / परीता-समन्विता / द्वेधापि-नामतोऽर्थतश्च / वीतशोका-तन्नाम्नी / पुरीनगरी, अस्तीतिशेषः / यां-वीतशोकापुरीम् / लक्ष्मीः, अनन्ताश्रयवाञ्छयेव-अनन्तः अपरिमितः यः आश्रयः आलम्बनं तस्य वाञ्छया अभिलाषयेव अथ च अनन्तः विष्णुः स एवा प्रयः पतित्वेनालम्बनं तद्वान्छया इव / परिचारिका-कर्मकरी सा / इव, निषेवते-गृहे गृहे तत्र परिचारिकेव लक्ष्मीः सदा वर्तत इति भावः / / 211 // रत्नध्वजस्तत्र बभूव चक्री, यस्य प्रतापेन विनिर्जितोऽसौ / वार्द्धाववाप्य प्रतिपक्षशङ्कां, झम्पां ददौ वाडवजातवेदाः // 212 // व्याख्या-तत्र-पुर्याम् / रत्नध्वजः-तन्नामा / चक्रो-चक्रवर्ती / बभूव, यस्य-रत्नध्वजस्य / प्रतापेन-तेजसा / विनिर्जितः-पराभूतः / असौ-प्रसिद्धः / वाडवजातवेदा:-वाडवाग्निः, 'ज्वलनो जातवेदाः' इत्यमरः / प्रतिपक्षशक-प्रतिभटसंभवभयम् , 'शा स्याव संशये भये' इत्यनेकार्थः / अवाप्य-प्राप्य,

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282