Book Title: Shantinath Mahakavyam Part 01
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ [ 267 ] अधीतशास्त्रार्थविबोधभाज-स्तिस्रोऽपिता गुप्तिवदप्रमत्ताः / प्रवर्तिनी नो मुमुचुः कदाचि-नमद्रसेनाजितसेनिकाह्वाम् // 219 // व्याख्या-अधीतशास्त्रार्थविबोधमाज:-अधीतानि यानि शास्त्राणि तेषामर्थानां विबोधं ज्ञानं भजन्तीति ताः तादृश्यः शास्त्रार्थमर्मज्ञाः / ताः, तिस्रः, अपि-राजपुत्र्यः / गुप्तिवदप्रमत्ता:-गुप्तयः मनोगुप्तिवचनगुप्तिकायगुप्तयो यासां सन्तीति गुप्तिवन्त्यः, न प्रमत्ताः अप्रमत्ताः, गुप्तिवन्त्यश्चाप्रमत्ताश्च गुप्तिमदप्रमत्ताः सत्यः / नमद्रसेन-अनुरागाधिक्येन / अजितमेनिकाह्वाम्-अजितसेनिकानाम्नीम् / प्रवचिनीसाध्वीं / कदाचित्-कदापि / नो-नैव / मुमुचुः-तत्सान्निध्यं न तत्यजुः // 219 / / अथ पद्मायाः व्रतग्रहणमाह--पद्मवेतिपदमेव पद्मा सुभगान्यदाति - निर्वेदपात्रीकृतबुद्धिधारा / तस्याः समीपे व्रतमादिताऽसौ, कदाचन व्यज्ञपयन्मुदा ताम् // 220 // व्याख्या--अन्यदा, पद्मा लक्ष्मीः सा / इव-लक्ष्मीः पद्मालया पद्मा' इत्यमरः / सुभगा-सुन्दरी। पद्मा-तन्नामराजपुत्री / अतिनिदपात्रीकृतबुद्धिधारा- अतिनिर्वेदस्योत्कटवैराग्यस्य पात्रीकृता बुद्धिधारा यया स तादृशी वैराग्यमापन्ना सती / तस्या:-अजितसेनिकाहपवर्त्तिन्याः / समीपे, व्रतं-दीक्षाम् / आदितगृहीतवती / कदाचन-कदाचिच्च / असौ-पद्मा / मुहा-हर्षेण / तां-प्रवर्तिनीं / व्यज्ञपयतनिवेदितवती / / 220 // तस्याः निवेदनमेवाह-पष्टिश्चतुर्यानीतिपष्टिश्चतुर्थानि भवन्ति यस्मिन्, द्वे च त्रिरात्रे तदहं तपोऽद्धा / कुर्वेतरां कर्म चतुर्थसंज्ञ, सा तन्मता तद्विदधे स्वतुष्टया // 221 // व्याख्या यस्मिन्-तपसि / षष्टिः चतुर्थानि-उपवासानि / भवन्ति, च–तथा / द्वे त्रिरात्रेत्रयाणां रात्रीणां समाहारः त्रिरात्रम् , द्विवचने त्रिरात्रे अष्टमद्वयमित्यर्थः / तदहं-तानि अहांसि यस्मिन् बत्तदहं, एवंविधम् , तपोऽद्धा दशविधतपोमध्ये अद्धाभेदभिन्नं तपः, / तत्-तादृशम् / अहं, कर्मचतुर्थसंज्ञं-कर्मचतुर्थाभिधानम् , यदुक्तमाचारदिनकरेऽस्य स्वरूपम् , 'उपवासत्रयं कुर्यादादावन्ते निरन्तरम् , मध्ये पष्टिमितान् कुर्यादुपवासांश्च सान्तरान्' इति कर्मणां चतुर्थ खण्डनरूपं कर्मचतुर्थम् , कुर्वतरां करोमि / सन्मता-तत्प्रवर्तिनीसमादिष्टा / सा-पद्या / तस्-तपः / स्वतुष्टया-मनोमोदपूर्वकं / विदधे-चकार // 22 //

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282