Book Title: Shantinath Mahakavyam Part 01
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 263
________________ [ 254 ] अथ तस्याः श्वशुरप्रणाममाह--पित्रोरितिपित्रोः पदद्वन्द्वमनुक्रमेण, प्राणीनमत्तामुपदान्वितां सः। इयं वधूर्वो नमतीति जल्पन्, भक्त्योपगूढः स्वयमप्यनंसीत् // 177 // व्याख्या-स:-मङ्गलकुम्भः / अनुक्रमेण–पौर्वापर्येण / इयं-पुरःस्थिता ! व:-युष्माकं / वधःस्नुषा / नमति-प्रणमति / इति-इत्थं / जल्पन्-कथयन् / पित्रोः-मातापित्रोः / पदद्वन्द्वं-चरणयुगलम् / उपदान्विताम् - उपहारैः अन्वितां युक्तां / तां-त्रैलोक्यसुन्दरीं / प्राणीनमत्-नमयामास ! भक्त्याप्रेम्णा / उपगूढ:-आलिङ्गितः / स्वयमपि, अनंसोत्-ननाम // 177|| अथ श्वश्रवाः परितोषमाह-वधूमितिवधू' समालोक्य विधूतदोषां, श्वश्रः परं तोषमवाप साऽपि / योग्यास्य जाया भवितेति चिन्ता, तदैव तस्याः हृदयं मुमोच // 178 // व्याख्या-साऽपि श्वश्र:-मङ्गलकुम्भमाता, विधूतः परित्यक्तः असम्बद्धः दोषः कुलक्षणं यया तां / विधूतदोषां, वधू, समालोक्य, परम्-अत्यन्तं / तोषं-मोदम् / अवाप / अस्य-मङ्गलकुम्भस्य / योग्याअनुरूपा। जाया-पत्नी / भविता-भविष्यति / इति चिन्ता, तदैव-वधू दृष्ट्वैव / तस्या:-श्वश्रवाः / हृदयं, मुमोच-तस्याश्चिन्ता विनष्टेत्यर्थः // 178 // अथ त्रैलोक्यसुन्दर्या अपि परितोषमाह--श्वमितिश्वश्रू समीक्ष्य श्वशुरं च लक्ष्मी, निकेतनं चापि परिच्छदं च / कृतार्थयामास वधूः स्वमेषा, स्वभाग्यसंरम्भविवर्णनेन / / 179 // व्याख्या-श्वश्र, श्वशुरं, च, लक्ष्मी-सम्पत्तिं / निकेतनं-गृहं / च, परिच्छदं-परिजनं / चापि समीक्ष्य-अवलोक्य / एषा, वधूः त्रैलोक्यसुन्दरी / स्वभाग्यसंरम्भविवर्णनेन-स्वभाग्यस्य यः संरम्भः संक्रमः तस्य विवर्णनेन प्रशंसनेन, 'भाग्यवत्यहं यत एवम्भूतं श्वशुरगृहं प्राप्तेत्येवमित्यर्थः / स्वम्आत्मानं / कृतार्थयामास-कृतार्थममन्यत // 179 अथ सिंहकृतभूपनिवेदनमाह-सिंहोऽपीति- .

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282