Book Title: Shantinath Mahakavyam Part 01
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 230
________________ [ 221 ] मार्गम्, उपैतुकामः-प्राप्तुकामः / ग्रामं, पुरं-नगरं / वा, पृथु-विशालं / गोकुलं-व्रजं / वा-व्रजं स्याद्गोकुलं गोष्ठम्' इत्यमरः / विमार्गयन्-अन्विष्यन् / पश्चाननवत्-सिंहवत, निर्भय इत्यर्थः / बभ्रामअटति स्म // 7 // अथ तस्य तडागदर्शनं त्रिभिराह-अथ व्यलोकिष्टेत्यादिअथ व्यलोकिष्ट स पुण्यसारं, कासारमाशाः परिपूरयन्तम् / समाव्रजत्पान्थपरम्पराणां, कर्पूरसारैरिव वारिपूरैः // 77 // अस्ताघभावं कलयन्तमुच्चैः, सतां मनोवद्विततं समन्तात् / दैत्यारिवक्षःस्थलवद्दधानं, पद्मानुरागं बहुसत्त्वनिष्ठम् // 8 // चक्राचितं जीवनदानवित्तं, राजाधिराजोन्नतपाणिवच्च / विष्वग् वृतं चारुविशालशाला-वल्या महापत्तनवत् सहंसम् // 79 // व्याख्या-अथ-अनन्तरं / सः-मङ्गलकुम्भः / समावजत्पान्थपरम्पराणाम्-समाबजतां समाग च्छतां पान्थानामध्वगानां परम्पराणां सन्ततीनाम् / आशा:-जलपानाद्यभिलाषाः / परिपूरियन्तम्सम्पादयन्तम् / कर्पूरसारै:-कर्पूरस्य सारैः, स्थिरांशैग्वि (कर्पू रेषु सारैरुत्तमैः उत्तमकर्पूरैरिव) स्वच्छैः / वारिपूरैः-जलौघः / उच्चैः-अतिशयेन / अस्ताघभावम्-अगाधत्वं / कलयन्तं-धारयन्तम् / सतांसज्जनानाम् मनोवत-हृदयवत् / समन्तात्-सर्वतः / विततं-विस्तृतम् / दैत्यारिवक्षःस्थलवत्-दैत्यारेः विष्णोः वक्षस उरसः स्थलवद् उरःस्थलमिव, बहुसत्त्वस्य बलाधिक्यस्य प्राणिसमूहस्य मत्स्यादेः निष्ठा स्थितियंत्र तत् / बहुसत्त्वनिष्ठम्, पद्मानुरागम्-पद्मायाम् लक्ष्म्याम् अनुरागम् पद्मस्य कमलस्य अनुरागम् मकरन्दस्रावेण रक्ततां च / दधान-धारयन्तम् / राजाधिराजोन्नतपाणिवत्-राजाधिराजस्य भूपतेश्चक्रवर्तिनः उन्नतपाणिवच्च / चक्राचितम्-चक्रेण तदाख्यास्त्रेण तदाख्यरेखया वा / अथ च चक्रवाकनामपक्षिसमूहेन आचितम् व्याप्तम् समन्वितम् / जीवनदानवित्तम् जीवनस्य पयसः जलस्य आजीवनवृत्तेर्वा दानेन वित्तम् प्रसिद्धम् / विष्वक्-समन्तात् / चारुविशालशालावल्या-चारुणां मनोहराणां विशालानां शालानां वृक्षाणाम् आवल्या श्रेण्या / वृतम्-आच्छादितम् / महापत्तनवत्-महानगरीवद / सहसम-हंसयुक्तम् / पक्षांतरे "हंसस्य मानसौकसि निर्लोभनृपविष्ण्वर्कपरमात्मन्यमत्सरे” इति मेदिनी / वचनाद निर्लोभराज्ञा लक्षणया प्रजाजनेन

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282