Book Title: Shad Darshan Samucchay
Author(s): Luigi Suali
Publisher: Asiatic Society

Previous | Next

Page 34
________________ घड्दर्शनसमुच्चयः सटीका। तदुत्पत्तिसमनन्तरमेव विनश्वरत्वम् । अथ न विद्यते स खभाव उत्पत्तिसमये, तर्हि कथं पश्चात्म भवेत् । अथेदृश एव तस्य स्वभावो यदुत कियन्तमपि कालं स्थित्वा तेन विनंष्टव्यमिति चेत्, तर्हि मुद्रादिसन्निधाने ऽप्येष एव तस्य स्वभावः स्यात् । .5 ततो भूयो ऽपि तेन तावत्कालं स्थेयम् । एवं च मुद्रादि घातशतपाते ऽपि न विनाशो भवेत् । जातं कल्पान्तस्थायित्वं घटादेः । तथा च जगद्व्यवहारव्यवस्था विलोपपातकपशिलता। इत्यभ्युपेयमनिच्छुनापि क्षणक्षयित्वं पदार्थानाम् । प्रयोगस्त्वेवम्। यदिनश्वरस्वभावं तदुत्पत्तिसमये ऽपि तत्स्वरूपं, यथान्त्यक्षण10 वर्तिघटस्य स्वरूपम् । विनश्वरखभावं च रूपरसादिकमुदयत श्रारभ्येति स्वभावहेतुः। तदेवं विनाशहेतोरकिंचित्करत्वात् । खहेतुत एव पदार्थानामनित्यानामेवोत्पत्तेः क्षणिकत्वमवस्थितमिति । ननु यदि क्षणक्षयिणो भावाः, कथं तर्हि स एवाय मिति ज्ञानम् । उच्यते । निरन्तरसदृशापरापरक्षणनिरीक्षण15 चैतन्योदयादविद्यानुबन्धाच्च पूर्वक्षणप्रलयकाल एव दीपकलि कायां दीपकलिकान्तरमिव तत्सदृशमपरं क्षणान्तरमुदयते । तेन समानाकारज्ञानपरंपरापरिचयचिरतरपरिणामानिरन्तरोदयाच्च पूर्वक्षणानामत्यन्तोच्छेदे ऽपि स एवायमित्यध्यवसायः प्रसभं प्रादुर्भवति। दृश्यते च यथालूनपुनरुत्पन्नेषु नखकेश20 कलापादिषु स एवायमिति प्रतौतिः, तथेहापि किं न संभाव्यते खजनेन। तस्मात्मिद्धमिदं यत्मत्तत्क्षणिकमिति । अत एव युक्तियुक्तमेतत् क्षणिकाः सर्वसंस्कारा इति ॥ अथ ।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196