________________
घड्दर्शनसमुच्चयः सटीका।
तदुत्पत्तिसमनन्तरमेव विनश्वरत्वम् । अथ न विद्यते स खभाव उत्पत्तिसमये, तर्हि कथं पश्चात्म भवेत् । अथेदृश एव तस्य स्वभावो यदुत कियन्तमपि कालं स्थित्वा तेन विनंष्टव्यमिति
चेत्, तर्हि मुद्रादिसन्निधाने ऽप्येष एव तस्य स्वभावः स्यात् । .5 ततो भूयो ऽपि तेन तावत्कालं स्थेयम् । एवं च मुद्रादि
घातशतपाते ऽपि न विनाशो भवेत् । जातं कल्पान्तस्थायित्वं घटादेः । तथा च जगद्व्यवहारव्यवस्था विलोपपातकपशिलता। इत्यभ्युपेयमनिच्छुनापि क्षणक्षयित्वं पदार्थानाम् । प्रयोगस्त्वेवम्।
यदिनश्वरस्वभावं तदुत्पत्तिसमये ऽपि तत्स्वरूपं, यथान्त्यक्षण10 वर्तिघटस्य स्वरूपम् । विनश्वरखभावं च रूपरसादिकमुदयत
श्रारभ्येति स्वभावहेतुः। तदेवं विनाशहेतोरकिंचित्करत्वात् । खहेतुत एव पदार्थानामनित्यानामेवोत्पत्तेः क्षणिकत्वमवस्थितमिति । ननु यदि क्षणक्षयिणो भावाः, कथं तर्हि स एवाय
मिति ज्ञानम् । उच्यते । निरन्तरसदृशापरापरक्षणनिरीक्षण15 चैतन्योदयादविद्यानुबन्धाच्च पूर्वक्षणप्रलयकाल एव दीपकलि
कायां दीपकलिकान्तरमिव तत्सदृशमपरं क्षणान्तरमुदयते । तेन समानाकारज्ञानपरंपरापरिचयचिरतरपरिणामानिरन्तरोदयाच्च पूर्वक्षणानामत्यन्तोच्छेदे ऽपि स एवायमित्यध्यवसायः प्रसभं प्रादुर्भवति। दृश्यते च यथालूनपुनरुत्पन्नेषु नखकेश20 कलापादिषु स एवायमिति प्रतौतिः, तथेहापि किं न
संभाव्यते खजनेन। तस्मात्मिद्धमिदं यत्मत्तत्क्षणिकमिति । अत एव युक्तियुक्तमेतत् क्षणिकाः सर्वसंस्कारा इति ॥ अथ ।