________________
बौद्धमतम् ।
अपेच्यते परः कश्चिद्यदि कुर्वीत किंचन ।
यदकिंचित्करं वस्तु कि केनचिदपेक्ष्यते ॥ १॥ श्रथ तस्य प्रथमार्थक्रियाकरणकाले ऽपरार्थक्रियाकरणस्वभावो न विद्यते। तथा च मति स्पष्टैव नित्यताहानिः। अथामौ नित्यो ऽर्थी योगपद्येनार्थक्रियां कुर्यात् । तथा मति प्रथमक्षण । एवाशेषार्थक्रियाणां करणाद्वितीयक्षणे तस्याकर्तृत्वं स्यात् । तथा च मैवानित्यतापत्तिः ॥ अथ तस्य तत्वभावत्वात् ता एवार्थक्रिया भूयो भूयो द्वितीयादिक्षणेष्वपि कुर्यात्, तदमांप्रतं कृतस्य करणभावादिति। किं च द्वितीयादिक्षणमाध्या अप्यर्थमार्थाः प्रथमक्षण एव प्राप्नुवन्ति, तस्य तत्स्वभावत्वात्, अतत्स्वभावे च 10 तस्थानित्यत्वप्राप्तिरिति। तदेवं नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहान खकारणेभ्यो नित्यस्योत्पाद इति ॥ अथ विनश्वरखभावः समुत्पद्यते । तथा च मति विघ्नाभावादायातममदुक्रमशेषपदार्थजातस्य चणिकत्वम् । तथा चोकम् ।
जातिरेव हि भावानां विनाशे हेतुरिष्यते । 15
यो जातश्च न च ध्वस्तो नश्येत्यश्चात्म केन वा ॥१॥ नन्वनित्यत्वे सत्यपि यस्य घटादिकस्य यदैव मुद्रादिसामग्रीमाकल्यं तदैव तहिनश्वरमाकल्पते न पुनः प्रतिक्षणं, ततो विनाशकारणपेक्षाणामनित्यानामपि पदार्थानां न चणिकलमिति। तदेतदनुपासितगुरोर्वचः, यता मुहरादिमविधाने 20 मति यो ऽस्य घटादिकस्यान्यावस्थायां विनाशस्वभावः स स्वभावस्तस्यैवोत्पत्तिसमये विद्यते न वा। विद्यते चेत्, भापतितं तर्हि