________________
षड्दर्शनसमुच्चयः सटोका
अथ दुःखसमुदयतत्त्वयोः संसारनिमित्तयोविपचभूते मार्गनिरोधतत्त्वे प्रपञ्चयन्नाह। क्षणिकाः सर्वसंस्कारा इत्येवं वासना यका। स मार्ग इह विज्ञेयो निरोधी मोक्ष उच्यते ॥ ७॥
ॐ परमनिकृष्टः कालः क्षणः। तत्र भवाः वणिकाः क्षणमात्रावस्थितय इत्यर्थः । सर्वे च ते संस्काराश्च पदार्थाः सर्वसंस्काराः क्षणविनश्वराः सर्वे पदार्था इत्यर्थः ॥ तथा च बौद्धा अभिदधति। खकारणेभ्यः पदार्थ उत्पद्यमानः किं विनश्वरस्वभाव उत्पद्यते
विनश्वरस्वभावो वा । यद्यविनश्वरखभावः, तदा तयापिकायाः 10 क्रमयोगपद्याभ्यामर्थक्रियाया प्रभावात्पदार्थस्यापि व्याप्यस्याभावः
प्रमजति। तथाहि। यदेवार्थक्रियाकारि तदेव परमार्थमदिति। सच नित्योऽर्थोऽर्थक्रियायां प्रवर्तमानः क्रमेण वा प्रवर्तत योगपद्येन वा । न तावत्कमेण, यता हटेकस्य अर्थक्रियायाः करण
काले तस्थापरार्थक्रियायाः करणखभावो विद्यते न वा। यदि IB विद्यते, कुतः क्रमेण करोति । पथ सहकार्यपेक्षया इति चेत्,
तेन महकारिणा तस्य नित्यस्य कश्चिदतिशयः क्रियते न वा। यदि क्रियते, तदा किं पूर्वस्वभावपरित्यागेन क्रियते ऽपरित्यागेन वा। यदि परित्यागेन, ततो ऽतादवस्थ्यापत्तेर
नित्यत्वम्। अथ पूर्वखभावापरित्यागेन, ततस्तस्य नित्यस्य 20 तत्कृतोपकाराभावा त्किं सहकार्यपेक्षया कर्तव्यम् । अथाकिंचि
करा ऽपि सहकारी तेन विशिष्ट कार्यार्थमपेक्षते । यतः ।