________________
.. बौद्दमतम् ।
पदार्थः सुखदुःखेच्छादेषज्ञानाधारभूतोऽध्यक्षणावसीयते । नाप्यनुमानेन, तदव्यभिचारिलिङ्गग्रहणाभावात् । न च प्रत्यक्षानुमानव्यतिरिक्रमाविसंवादि प्रमाणन्तरमस्तौति । ते च पञ्च स्कन्धाः क्षणमात्रावस्थायिन एव वेदितव्याः, न पुनर्नित्याः कियत्कालावस्थायिनो वा । एतच्च क्षणिकाः सर्वसंस्कारा इत्यत्र । दर्शयिष्यते ॥ दुःखतत्त्वं पञ्चभेदतणभिधायाथ दुःखतत्त्वस्य कारणभूतं समुदयतत्त्वं व्याख्याति ।
समुदेति यतो लोके रागादीनां गणो ऽखिलः । : आत्मात्मीयभावाख्यः समुदयः स उदाहृतः॥६॥
यतो यस्मात्ममुदयालोके लोकमथे रागादौनां रागद्वे- 10 पादिदोषाणं गणः समवायो ऽखिलः समस्तः समुदेति समुद्भवति। कीदृशो गण इत्याह । श्रात्मात्मीयभावाख्यः । अत्मा खं, प्रात्मीयः स्वकीयः, तयोर्भावस्तत्त्वम् । श्रात्मात्मीयभावः अयमात्मा अयं चात्मीय इत्येवं संबन्ध इत्यर्थः । उपशक्षणवादयं परो ऽयं च परकीय इत्यादि संबन्धो द्रष्टव्यः। स 15 एवाख्या नाम यस्य म श्रात्मात्मीयभावाख्यः। अयं भावः । प्रात्मात्मीयसंबन्धेन परपरकीयादिसंबन्धेन वा यतो रागद्वेषादयः समुद्भवन्ति, समुदयो नाम तत्त्वम् । बौद्धमत उदाहतः कथितः । अत्रोत्तरार्ध मप्तनवाक्षरपाददये छन्दोन्तरमदावाछन्दोभङ्गदोषो न चिन्यः, पार्षत्वात्प्रस्तुनशास्त्रस्य ॥ .. 20