________________
बौद्धमतम् ।
प्रस्तुतं प्रस्तूयते । क्षणिकाः सर्वसंस्कारा इत्यत्र इतिशब्दापकारार्थात् नात्यात्मा कश्चन, किं तु ज्ञानक्षणसंताना एव मन्ती. त्यादिकमत्र ग्रह्यते। ततो ऽयमर्थः । क्षणिकाः सर्व पदार्थाः, नास्त्यात्मेत्याद्याकारा एवमौदृशौ यका, खार्थे कात्यये, या वासना पूर्वज्ञानजनिता तदुत्तरज्ञाने शनिः क्षणपरंपराप्राप्ता 5 मानसी प्रतीतिरित्यर्थः ॥ स मार्गो नामार्यसत्यं, दह बौद्धमते, विज्ञयो ऽवगन्तव्यः । सर्वपदार्थक्षणिकत्वनैरात्म्याद्याकारश्चित्तविशेषो मार्ग इत्यर्थः । स च निरोधस्य कारणं द्रष्टव्यः ॥ अथ चतुर्थमार्यसत्यमाह। निरोधो निरोधनामकं तत्त्वं, मोक्षो ऽपवर्ग, उच्यते ऽभिधीयते। चित्तस्य निलेशावस्थारूपो 10 निरोधो मुक्तिर्निगद्यत इत्यर्थः । एतानि दुःखादौन्यार्यसत्यानि चत्वारि यानि ग्रन्थक्तात्रानन्तरमेवोक्तानि मौत्रान्तिकमतेनैवेति विज्ञेयम् । वैभाषिकादिभेदनिर्देश विना सामान्यतो बौद्धमतेन तु द्वादशैव ये पदार्था भवन्ति तानपि संप्रति विवक्षुः लोकमेनमाह।
15
पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि हादशायतनानि च ॥८॥
पञ्चसंख्यानौन्द्रियाणि श्रोत्रचक्षुर्घाणरसनस्पनरूपाणि । शब्दाद्याः शब्दरूपरसगन्धस्पर्शा पञ्च विषया इन्द्रियगोचराः । मानसं चित्तं यस्य शब्दायतनमिति नामान्तरम् । धर्माः 20 सुखदुःखादयस्तेषामायतनं ग्टहं शरीरमित्यर्थः । एतान्यनन्तरो