Book Title: Shad Darshan Samucchay Author(s): Luigi Suali Publisher: Asiatic SocietyPage 66
________________ घड्दर्शनसमुच्चयः सटीकः । इन्द्रियार्थमन्त्रिकर्षात्पन्नत्ववर्जाणि च ज्ञानादिविशेषणनि प्रत्यक्षसूत्रादत्रापि संबन्धनौयानि । एषां च व्यवच्छेद्यानि प्रागुक्तानुमारेण खयं परिभाव्यानि। तथा द्वितीयलिङ्गदर्शनपूर्विकाया अविनाभावसंबन्धस्मृतेस्तत्पूर्वकपूर्वकत्वात्तजनकस्यानुमानवनि5 त्यर्थमर्थोपलब्धिग्रहणं कार्य, स्मृतेस्वर्थ विनापि भावात् । ततो ऽयमर्थः। अर्थोपलब्धिरूपमव्यभिचरितमव्यपदेश्यं व्यवसायात्मकं ज्ञानं तत्पूर्वकपूर्वकं यतो लिङ्गादेः समुपजायते तदनुमानमिति १ । तथा ते वे प्रत्यचे लिङ्गलिङ्गिसंबन्धदर्शनं लिङ्ग दर्शनं च पूर्व यस्य तत्तत्पूर्वकमिति विग्रहविशेषाश्रयणादनु10 मानस्याध्यक्षफलदयपूर्वकत्वं ज्ञापितं द्रष्टव्यम् २ । तथा तानि प्रत्यक्षादिसर्वप्रमाणानि पूर्व यस्य तत्तत्पूर्वकमिति विग्रहविशेषाश्रयणेन सर्वप्रमाणपूर्वकत्वमप्यनुमानस्य लभ्यते । न च तेषां पूर्वमप्रकृतत्वात्कथं तच्छब्देन परामर्श इति प्रेर्यम् । यतः साक्षा दप्रकृतत्वेऽपि प्रत्यक्षसूचे व्यवच्छेद्यत्वेन प्रकृतत्वादिति। अस्यां 15 व्याख्यायां नाव्याप्यादिदोषः कश्चनापि। ये तु पूर्वशब्दस्यैकस्य लुप्तस्य निर्देशं नाभ्युपगच्छन्ति, तेषां प्रत्यक्षफलेऽनुमानत्वप्रमक्तिः, तत्फलस्य प्रत्यक्षप्रमाणपूर्वकत्वात्। अथाकारकस्याप्रमाणत्वात्कारकलं लभ्यते। ततोऽयमर्थः। अव्यभिचारिताव्यपदेश्यव्यवसा यात्मिकार्थीपलब्धिजनकमेवाध्यक्षफलं लिङ्गज्ञानमनुमानमिति 20 चेत् । उच्यते । एवमपि विशिष्टज्ञानमेवानुमानं प्रसज्यते । न च ज्ञानस्यैवानुमानत्वं स्मृत्यनुमानागमसंशयप्रतिभाखनज्ञानोहाः सुखादिप्रत्यचमिच्छादयश्च मनसो लिङ्गानौति वचनात्सर्वस्यPage Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196