Book Title: Shad Darshan Samucchay
Author(s): Luigi Suali
Publisher: Asiatic Society

Previous | Next

Page 196
________________ 182 षड्दर्शनसमुच्चयः सटीका। एवं प्रतिपद्यते। तन्त्र कथमपि सांख्यमते प्रकृतिसंयोगो घटते ततश्च संयोगाभावाद्वियोगो ऽपि दुर्घट एव, संयोगपूर्वकत्वाधियोगस्य // किं च। यदुक्तं "विवेकख्यातेः” इत्यादि, तदविचारितरमणीयम् / तत्र केयं ख्याति म / प्रकृतिपुरुषयोः खेन 5 खेन रूपेणवस्थितयो देन प्रतिभामनमिति चेत् / सा कस्य, प्रकृतेः पुरुषस्य वा / न प्रकृतेः, तस्या असंवेद्यपर्वणि स्थितत्वादचेतनत्वादनभ्युपगमाच्च / नाण्यात्मनः, तस्याप्यसंवेद्यपर्वणि स्थितत्वात् / तथा यदपि “विज्ञातविरूपाह” इत्याधुक्तं, तदयसमौषिताभिधानं, प्रकृतेर्जडतयेत्यं विज्ञानानुपपत्तेः / किं 10 च विज्ञातापि। प्रकृतिः संसारदशावन्मोक्षे ऽप्यात्मनो भोगाय स्वभावतो वायुवत्प्रवर्ततां, तस्वभावस्य नित्यतया तदापि मत्त्वात्। न हि प्रवृत्तिस्वभावो वायुर्विरूपतया येन ज्ञातस्तं प्रति तत्वभावादुपरमतः इति ; कुतो मोक्षः स्यात् / तदा तदसत्त्वे वा प्रकृते नित्येकरूपताहानिः, पूर्वभावत्यागेनोत्तरस्वभावोपा15 दानस्य नित्यैकरूपतायां विरोधात्, परिणमिनि नित्य एव तहविरोधात्। प्रकृतेश्च परिणमिनित्यत्वाभ्युपगम आत्मनो ऽपि तदनीकर्तव्यं, तस्यापि प्राक्तनसुखोपभोक्तस्वभावपरिहारेण मोचे तदभोक्तखभावस्खौकारात्, अमुक्तादिखभावत्यागेन मुकत्वादिखभावोपादानाच्च / सिद्धे चास्य परिणामिनित्यत्वे 20 सुखादिपरिणामैरपि परिणमित्वमस्थाभ्युपगन्तव्यं, अन्यथा मोक्षाभावप्रसङ्गः / ततश्च न कथमपि मांख्यपरिकल्पितो मोक्षो घटत इति यथोक्तखरूप एवानन्तसुखादिस्वरूपो ऽभ्युपगन्तव्यः //

Loading...

Page Navigation
1 ... 194 195 196