Book Title: Shad Darshan Samucchay
Author(s): Luigi Suali
Publisher: Asiatic Society

Previous | Next

Page 128
________________ १२४ षड्दर्शनसमुच्चयः सटोका। पत्तिरूपं तदस्येवेति चेत् । न, तेन सहाविनाभावाभावात्, जगदैचिश्यस्य सार्वञ्चं विनापि शुभाशुभकर्मपरिपाकादिवशेनोपपद्यमानत्वात् । किं चायं यदि सर्वज्ञः, तदा जगदुपप्लवकरण खैरिणः पश्चादपि कर्तव्यनिग्रहानसुरादीस्तदधिक्षेपवतो ऽस्म5 दादींश्च किमर्थ सृजतौति नायं सर्वज्ञः। तथा बहनामेककार्यकरणे वैमत्यसंभावनाभयेन महेशितुरेकत्वकल्पना भोजमादिव्ययभयात् कृपणस्यात्यन्तवल्लभपुत्रकलत्रमित्रादिपरित्यजनेन शून्यारण्यानौसेवनंतलामाकलयति । अनेककौटिकासरघा शतसंपाद्यत्वेऽपि शक्रमूर्धमधुच्छचादिकार्याणामेकरूपतयाविगा10 नेनोपलम्भात् । किं चेश्वरस्थाखिलजगत्कर्टत्वे ऽभ्युपगम्यमाने शास्त्राणं प्रमाणेतरताव्यवस्थाविलोपः स्यात् । तथाहि । सर्व शास्त्र प्रमाणमौश्वरप्रणीतत्वादितरत्प्रणीतशास्त्रवत् । प्रतिवाद्यादिव्यवस्था विलोपश्च, सर्वेषामौश्वरादेशविधायित्वेन तत्प्रतिलो माचरणानुपपत्तेः प्रतिवाद्यभावप्रसङ्गात् । इति न सृष्टिकरस्य 15 महेश्वरस्य कथंचिदपि सिद्धिः । ततः सद्भूतार्थप्रकाशकत्वादीत राग एव सर्वज्ञो देवो देवत्वेनाभ्युपगमनाही नापरः कश्चिदिति स्थितम् ॥ अत्र जल्पन्ति जैमिनीयाः । दह हि सर्वज्ञादिविशेषणविशिष्टो भवदभिमतः कश्चनापि देवो नास्ति, तबाहकप्रमाणा20 भावात् । तथाहि । न तावत्प्रत्यक्षं तबाहकं, संबद्धं वर्तमानं हि ग्टह्यते चक्षुरादिना । इति वचनात्।

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196