Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 5
________________ द्वितीयावृत्ति संबन्धि निवेदनम् । सोऽयं सर्वदर्शनसंग्रहाभिधो ग्रन्थः पुरा वसुद्वयष्टृन्दु ( १८२८ ) परिमिते शाकीये संवत्सरेऽत्र संस्थायां मुद्रितोऽभूत् । स च न केवलमत्र नापि केवलं महाराष्ट्रे किंतु मोहमयीमहामहीमण्डलेऽपि प्रथममेव मुद्रितोऽभूत् । वङ्ग ( बंगाल ) देशे यथा कथंचिदसौ मुद्रित इति केवलं श्रूयते स्म । तदानीं च संशोधनकर्मणि यावदपेक्षितानि साधनानि नाऽऽसन् । किंचैतद्देशे तदध्ययनाध्यापनप्रचारोऽपि विलयं गत इवाऽऽसीत् । एतादृश्यवस्थान्तरे त्रुटितानि अतिजीर्णतया स्थले स्थले निर्मृष्टाक्षराणि लेखकाज्ञानाद्वा तत्पठनपाठनप्रचाराभावाद्वा विपर्यासं गतान्यप्यत्यशुद्धान्यपि कतिचित्तत्प्रत्यन्तराणि महता प्रयत्नेन संपाद्यानि सहायभूतान्यभूवन् । ततश्च लेखक दोषात्कलिकयोजक दोषादूदृष्टिदोषाच्चापि स्थले स्थले ग्रन्थो वा पाठानामूर्ध्वाधरीभावो वाऽपि वैपरीत्यं जुषते स्मेति मन्ये । अथ द्वितीयमुद्रणावृत्तिसमये संप्राप्ते प्रथमावृत्तिस्थितानि स्खलितानि परिमार्जितव्यानीति मनस्यकरवम् । ततस्तत्तद्दर्शनसंबन्धीनि संस्कृत पुस्तकानि शारीरभाव्यरामानुजभाष्यादीनि तथा तत्तद्दर्शनानामाङ्गलीयभाषान्तराणि महाराष्ट्रभाषान्तराणि च अन्यान्यपि तदुपयुक्तानि पुस्तकानि संपाच संवत्सरपर्यन्तमास्थापूर्वकं पुनः पुनर्वाचनमकार्षम् । अथ च वे० शा ० सं० आचार्यभक्तपदविभूषि बापटोपा विष्णुशास्त्रिणां सविधे प्रत्यहं गत्वा सार्धसंवत्सरपर्यन्तमामूलादस्य ग्रन्थस्य तन्मुखाच्छ्रवणमप्यकार्षम् । एवमवश्यापेक्षितां पूर्वभाविनीं साधनसामग्री सिद्धां कृत्वैतत्संशोधने प्रवृत्तोऽभूवमहम् । तत्र प्रथमावृत्तिस्थितानि प्रमादस्थलानि सर्वाण्यपि यथामति विचार्य संशुद्धतां लम्भितानि । तथा पाठाश्चापि येऽअधःस्थितियोग्या अप्यूर्ध्वं गता आसंस्ते स्वस्थानेऽधो निवेशिताः । तत्संसूचनायैव च तदग्रे - एतादृक्तिरेखा रूपं चिह्नं प्रदत्तमस्ति । ये च पाठा ऊर्ध्वस्थितिमर्हन्तोऽप्यधः पतितास्त उपरि योग्यस्थलं प्रापिताः सन्ति । अत्र प्रसङ्गागतमुपेक्षानर्हमिति किंचिन्निवेद्यते – वे० शा ० सं० महामहोपाध्यायपदमण्डितैरभ्यंकरोप हैवसुदेवशास्त्रिभिरभिनयां दर्शनाङ्कुराभिधां टीकां विरच्य तत्संवलितः सर्वदर्शनसंग्रहो ( भाण्डारकर इन्स्टिट्यूट संस्थायां ) मुद्रितः । स चातीव सुपरिशुद्धः । टीकाऽपि सुविशदा सुलभार्थावबोधा च दर्शनकारहृत्तलावगाहिनी चेत्यतीव हृदयंगमा । प्रार्थये च सर्वदर्शनसंग्रहग्रन्थरहस्यजिज्ञासूनेकवारमपि सा भवद्भिः प्रेक्षणीयेति । अनेन च पुस्तकेनैतग्रन्थसंशोधनेऽनुपमं साहाय्यमाचरितमिति स्मरामि गुरुवर्याणां महामहोपाध्यायवासुदेवशास्त्रिणां मुहुर्मुहुरुपकारभारम् । तथा वे० शा० सं० आचार्यभक्त विष्णुशास्त्रि. भिरपि स्वकीयं बहुमूल्यं कालं मदर्थं व्ययीकृत्य बहूपकृतमिति सप्रमोदमभिनन्दये । 1 1

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 220