Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
षष्ठः परिच्छेदः
अथ वीथीवीथ्यामेको भवेदः, कश्चिदेकोज कल्प्यते । आकाशभाषितैरुक्तश्चित्रां प्रत्युक्तिमाश्रितः ।। २५३ ॥ सूचयेद्भरि शृङ्गारं किश्चिदन्यानरसान् प्रति । मुखनिर्वहणे सन्धी अथप्रकृतयोऽखिलाः ॥ २५४ ॥
कश्चिदुत्तमो मध्यमोऽधमो वा। शृङ्गारबहुलत्वाचास्याः केशिकी वृत्तिबहुलत्वम् ।
अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः । उद्घात्य(त)कावलगिते प्रपञ्चस्त्रिगतं छलम् ॥ २५५ ॥
वीथी लक्षति-वीथ्यामिति । वीथ्यामेकोऽङ्को भवेत् । अत्र = वीथ्याम् । कश्चित् = कोऽपि, उत्तमो मध्यमोधमो वा, एकः = नायकः, कल्प्यते = कल्पयित्वा वर्ण्यते । स च उक्तः = अभहितप्रकारः, आकाशभाषितः = "किं ब्रवीयित्या"कारक.( ४९१ पृ०) लक्षणलक्षितर्नाटयोक्तिविशेषः, चित्राम् = अद्भुतस्वरूपा, प्रत्युक्ति = प्रतिवचनम्, आश्रितः = कृताधपः सन् ।। २५३ ।।
शृङ्गारम् = आदिरसं, भूरि = अधिक यथा तथा, अन्यान् - अपरान्, रसान् अपि, किंचित, सूचयेत् = सूचनां कुर्यात् । मुखनिर्वहणे सन्धी, स्याता = भवेतां, तथा बखिलाः = समस्ताः, अर्थप्रकृतयः = प्रयोजन सिद्धिहेतवः, बीज-बिन्दु-पताका-प्रकरीकार्यरूपाः, स्युः ।। २५४ ॥
विवृणोति-कश्चिदिति । अस्याः = वीथ्याः।
वीथ्यङ्गान्युद्दिशति-प्रस्या इति। मनीषिणः = विद्वांसः, अस्याः = वीथ्याः त्रयोदशाऽङ्गानि, निर्दिशन्ति । तानि यथा-उद्घात्यकम्, अवलगितं, प्रपञ्चः, त्रिगत, छलम् ॥ २५५ ॥
पोथी-वीथी में एक अङ्क होता है इसमें किसी उत्तम, मध्यम वा अधम नायककी कल्पना होती है । वह पूर्वोक्त प्रकारवाले आकाशभापितोंसे विचित्र प्रत्युक्तिका आश्रय कर ।। २५३ ।।
शङ्गारको अधिक भावसे और अन्य रसोंको भी सूचित करे । इसमें मुख और निर्वहण सन्धियां और बोज, बिन्दु, पताका, प्रकरी और कार्य ये सब अर्थप्रकृतियां होती हैं ।। २५४ ।।
शृङ्गारकी अधिकता होनेसे इसमें कैशिकी वृत्तिकी प्रचुरता होती है । विद्वान् . लोग इसके तेरह अङ्गोंका निर्देश करते हैं
उखात्यक, अवलगित, प्रपञ्च, विगत छल ।। २५५ ॥

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690