SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः अथ वीथीवीथ्यामेको भवेदः, कश्चिदेकोज कल्प्यते । आकाशभाषितैरुक्तश्चित्रां प्रत्युक्तिमाश्रितः ।। २५३ ॥ सूचयेद्भरि शृङ्गारं किश्चिदन्यानरसान् प्रति । मुखनिर्वहणे सन्धी अथप्रकृतयोऽखिलाः ॥ २५४ ॥ कश्चिदुत्तमो मध्यमोऽधमो वा। शृङ्गारबहुलत्वाचास्याः केशिकी वृत्तिबहुलत्वम् । अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः । उद्घात्य(त)कावलगिते प्रपञ्चस्त्रिगतं छलम् ॥ २५५ ॥ वीथी लक्षति-वीथ्यामिति । वीथ्यामेकोऽङ्को भवेत् । अत्र = वीथ्याम् । कश्चित् = कोऽपि, उत्तमो मध्यमोधमो वा, एकः = नायकः, कल्प्यते = कल्पयित्वा वर्ण्यते । स च उक्तः = अभहितप्रकारः, आकाशभाषितः = "किं ब्रवीयित्या"कारक.( ४९१ पृ०) लक्षणलक्षितर्नाटयोक्तिविशेषः, चित्राम् = अद्भुतस्वरूपा, प्रत्युक्ति = प्रतिवचनम्, आश्रितः = कृताधपः सन् ।। २५३ ।। शृङ्गारम् = आदिरसं, भूरि = अधिक यथा तथा, अन्यान् - अपरान्, रसान् अपि, किंचित, सूचयेत् = सूचनां कुर्यात् । मुखनिर्वहणे सन्धी, स्याता = भवेतां, तथा बखिलाः = समस्ताः, अर्थप्रकृतयः = प्रयोजन सिद्धिहेतवः, बीज-बिन्दु-पताका-प्रकरीकार्यरूपाः, स्युः ।। २५४ ॥ विवृणोति-कश्चिदिति । अस्याः = वीथ्याः। वीथ्यङ्गान्युद्दिशति-प्रस्या इति। मनीषिणः = विद्वांसः, अस्याः = वीथ्याः त्रयोदशाऽङ्गानि, निर्दिशन्ति । तानि यथा-उद्घात्यकम्, अवलगितं, प्रपञ्चः, त्रिगत, छलम् ॥ २५५ ॥ पोथी-वीथी में एक अङ्क होता है इसमें किसी उत्तम, मध्यम वा अधम नायककी कल्पना होती है । वह पूर्वोक्त प्रकारवाले आकाशभापितोंसे विचित्र प्रत्युक्तिका आश्रय कर ।। २५३ ।। शङ्गारको अधिक भावसे और अन्य रसोंको भी सूचित करे । इसमें मुख और निर्वहण सन्धियां और बोज, बिन्दु, पताका, प्रकरी और कार्य ये सब अर्थप्रकृतियां होती हैं ।। २५४ ।। शृङ्गारकी अधिकता होनेसे इसमें कैशिकी वृत्तिकी प्रचुरता होती है । विद्वान् . लोग इसके तेरह अङ्गोंका निर्देश करते हैं उखात्यक, अवलगित, प्रपञ्च, विगत छल ।। २५५ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy