________________
५५६
आहुः ।
साहित्यदर्पणे
रसोऽत्र करुणः स्थायी, बहुखीपरिदेवेितम् । प्रख्यातमितिवृत्तं च कविबुद्धया प्रपश्चयेत् ।। २५१ ॥ भाणवत्सन्धिवृत्यङ्गान्यस्मिञ्जय पराजयौ 1 युद्धं च वाचा कर्त्तव्यं निर्वेदवचनं बहु ॥ २५२ ॥ इमं च केचित् नाटकाद्यन्तः पात्यङ्कपरिच्छेदार्थमुत्सृष्टिकाङ्कनामानम्
अन्ये तु –'उत्क्रान्ता-विलोमरूपा सृष्टिर्यत्रेत्युत्सृष्टिकाङ्कः” । यथाशर्मिष्ठा ययातिः ।
अत्र = अस्मिन्न, स्थायी स्थैर्यशीलः, करुणो रसः, बहुस्त्रीपरिदेवितम् बहूनां (बहुलानाम् ) स्त्रीणां ( योषिताम् ) परिदेवितं ( विलापः ) भवेत् । कविः = कवयिता, प्रख्यात प्रसिद्धम्, नाट्यशास्त्र सिद्धान्ताऽनुसारं क्वचिदप्रख्यातमपि इतिवृत्तं = वर्णनीयं वस्तु, बुद्धघा = स्वमस्या, प्रपञ्चयेत् = विस्तारयेत् ॥ २५१ ॥
-
अस्मिन् = अङ्के, भाणवत् = भाणे यथा, सन्धिवृत्यङ्गानि = सन्धी ( मुख-: · प्रतिमुखे ) वृत्ती ( भारतीकैशिक्यौ ), अङ्गानि ( दशाऽपि लास्याऽङ्गानि ) भवेयुः । :जयपराजयो = नायकप्रतिनायकयोर्दर्शनीयाविति शेषः । वाचा = वचनेन; युद्धं = संग्रामश्च कर्तव्यं = विधेयं, न तु शस्त्रेणेति भाव: । बहु - अधिकं निर्वेदवचनं - स्वाऽवमाननसूचकं वाक्यं च कविना कर्तव्यमिति शेषः ।। २५२ ।।
विवृणोति - हममिति । इमम् = अङ्कनामकं रूपकविशेषं, केचित् कतिपय विद्वांसः, नाटकाद्यन्तः पात्य ङ्कपरिच्छेदाऽर्थं नाटकादीनाम् ( रूपकविशेषादीनाम् ) अन्तःपातिनः ( अन्तःपतनशीलाः ) ये अङ्का:, तेषां परिच्छेदाऽर्थम् ( व्यावृत्यर्थम् ) उत्सृष्टिकाङ्कनामानम् = उद्गता ( उत्क्रान्ता ) नाटकाद्यङ्कात् भिन्नरू, सृष्टि: ( निर्मिति : ) यस्य स उत्सृष्टिकः, स चाऽसावङ्कः इति नामान्तरमिति भावः । अन्ये तु | = अपरे तु, उत्क्रान्ता = विलोमरूपा, प्राकृतनायकत्वाद्विपरीतरूपेति भाव:, सृष्टिः = रचना यस्य स चासो अङ्क इति उत्सृष्टिकाङ्कः ।
इसमें स्थायी करुणरस होता है, और बहुतसी स्त्रियोंका विलाप रहता है । इसमें प्रसिद्ध इतिवृत्तको कवि अपनी बुद्धिसे विस्तृत करता है ।। २५१ ।।
इसमें भाणके समान मुख आदि सन्धियों, भारती आदि वृत्तियाँ और लास्के दश अङ्ग होते हैं । इसमें नायक, और प्रतिनायकके जय और पराजयको दिखानो चाहिए। वचनसे ही युद्ध करना चाहिए और अपनी अवमानना के सूचक अधिक वाक्यको दिखलाना चाहिए ।। २५२ ।।